________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा ऐगपऊणा कोडी, पयाण नाणप्पवायपुवम्मि 5 / सच्चप्पवायपुबे 6, एगा पयकोडि छच्च पया // छवीसं पयकोडी, पुवे आयप्पवायनामम्मि 7 / कम्मप्पवायपुवे 8, पयकोडी असिइलक्खजुया // पञ्चक्खाणभिहाणे 9, पुवे चुलसीइ पयसयसहस्सा / दसपयसहसजुया पयकोडी विजापवायम्मि 10 // कल्लाणनामधिजे 11, पुवम्मि पयाण कोडि छवीसा। छप्पन्नलक्खकोडी, पयाण पाणाउपुबम्मि 12 // किरियाविसालपुवे 13, नव पयकोडीउ बिति समयविऊ / सिरिलोकबिन्दुसारे 14, सट्टदुवालस य पयलक्खा // अङ्गबाह्यश्रुतम् आवश्यकदशवैकालिकादि 14 इति // 6 // व्याख्यातं चतुर्दशधा श्रुतम् / सम्प्रति विंशतिधा श्रुतं व्याख्यानयन्नाह पजयअक्खर २पय३संघाया४ पडिवत्ति५ तह य अणुओगो। ' पाहुडपाहुडपाहुड८वत्थूपुवा१० य ससमासा // 7 // पर्यायश्च अक्षरं च पदं च सङ्घातश्च पर्यायाक्षरपदसङ्घाताः / “पडिवत्ति" ति प्रतिपत्तिः, प्राकृतत्वात् लुप्तविभक्तिको निर्देशः / तथा च 'अनुयोगः' अनुगद्वारलक्षणः / प्राभृत• . प्राभृतं च प्राभृतं च वस्तु च पूर्वं च प्राभृतप्रामृतप्राभृतवस्तुपूर्वाणि / प्राकृतत्वाल्लिङ्गव्यत्ययः / यदाह पाणिनिः स्वप्राकृतलक्षणे-“लिङ्गं व्यभिचार्यपि" / 'चः' समुच्चये। एते पर्यायादयः श्रुतस्य दश भेदाः कथम्भूताः ? इत्याह-"ससमास"त्ति समासः-संक्षेपो मीलक इत्यर्थः, सह समासेन वर्तन्ते ससमासास्ततश्च प्रत्येकं सम्बन्धः / तथाहि-पर्यायः पर्यायसमासः, अक्षरम् अक्षरसमासः, पदं पदसमासः, सङ्घातः सङ्घातसमासः, प्रतिपत्तिः प्रतिपत्तिसमासः, अनुयोगः अनुयोगसमासः, प्राभृतप्राभृतं प्राभृतप्राभृतसमासः, प्राभृतं प्राभृतसमासः, वस्तु वस्तुसमासः, पूर्व पूर्वसमास इति विंशतिधा श्रुतं भवतीति गाथाक्षरार्थः / भावार्थस्त्वयम्पर्यायो ज्ञानस्यांशो विभागः पलिच्छेद इति पर्यायाः / तत्रैको ज्ञानांशः पर्यायः, अनेके तु ज्ञानांशाः पर्यायसमासः / एतदुक्तं भवति-लब्ध्यपर्याप्तस्य सूक्ष्मनिगोदजीवस्य यत् सर्वजघन्यं श्रुतमात्रं तस्मादन्यत्र जीवान्तरे य एकः श्रुतज्ञानांशोऽविभागपलिच्छेदरूपो वर्धते स पर्यायः 1 / ये तु यादयः श्रुतज्ञानाविभागपलिच्छेदा नानाजीवेषु वृद्धा लभ्यन्ते ते समुदिताः पर्यायसमासः 2 / अकारादिलब्ध्यक्षराणामन्यतरदक्षरम् 3 / तेषामेव धादिसमुदायोऽक्षरसमासः 4 / पदं 1 एकपदोना कोटी पदानां ज्ञानप्रवादपूर्वे 5 / सत्यप्रवादपूर्वे 6 एका पदकोटी षट् च पदानि // षडिंशतिः पदकोटी पूर्वे आत्मप्रवादनामनि / कर्मप्रवादपूर्वे 8 पदकोटी अशीतिलक्षयता // प्रत्याख्यानाभिधाने 1 पूर्वे चतुरशीतिः पदशतसहस्राणि / दशपदसहस्रयुका पदकोटी विद्याप्रवादे 10 // कल्याणनामधेये 11 पूर्वे पदानां कोटिः षडिंशतिः / षट्पञ्चाशल्लक्षकोटी पदानां प्राणायुःपूर्वे 12 // क्रियाविशालपूर्वे 13 नव पदकोव्यो झुवते समयविदः / श्रीलोकबिन्दुसारे 14 सार्धद्वादश च पदलक्षम् //