________________ 16 देवेन्द्रसूरिविरचितखोपज्ञटीकोपैतः [गाथा ततश्च संज्ञा विद्यते येषां ते संज्ञिनः, परं सर्वत्राप्यागमे ये दीर्घकालिक्या संज्ञया संज्ञिनस्ते संज्ञिन उच्यन्ते, ततः संज्ञिनां श्रुतं संज्ञिश्रुतम् समनस्कानां मनःसहितैरिन्द्रियैर्जनितं / श्रुतं संज्ञिश्रुतमिति भावः 3 / मनोरहितेन्द्रियजं श्रुतमसंज्ञिश्रुतम् 4 / तथा सम्यग्दृष्टरर्हत्यणीतं मिथ्यादृष्टिप्रणीतं वा यथाखरूपमवगमात् सम्यक्श्रुतम् 5 / मिथ्यादृष्टेः पुनरर्हप्रणीतमितरद्वा मिथ्याश्रुतं, यथाखरूपमनवगमात् 6 / __ आह-मिथ्यादृष्टेरपि मतिश्रुते सम्यग्दृष्टेरिव तदावरणकर्मक्षयोपशमसमुद्भवे सम्यग्दृष्टेरिव पृथुबुध्नोदराद्याकारं घटादिकं च संविदाते, तत् कथं मिथ्यादृष्टेरज्ञाने ?. उच्यते-सदसद्विवेकपरिज्ञानाभावात् / तथाहि-मिथ्यादृष्टिः सर्वमप्येकान्तपुरःसरं प्रतिपद्यते, न भगवदुतस्याद्वादनीत्या; ततो घट एवायमिति यदा ब्रूते तदा तस्मिन् घटे घटपर्यायव्यतिरेकेण शेषान् सत्त्वज्ञेयत्वप्रमेयत्वादीन् सतोऽपि धर्मानपलपति, अन्यथा घट एवायमित्येकान्तेनावधारणानुपपत्तेः; घटः सन्नेवेति ब्रुवाणः पररूपेण नास्तित्वस्यानभ्युपगमात् पररूपतामसतीमपि तत्र प्रतिपद्यते; ततः सन्तमसन्तं प्रतिपद्यतेऽसन्तं च सन्तमिति सदसद्विशेषपरिज्ञानाभावादज्ञाने मिथ्यादृष्टेमतिश्रुते / इतश्च ते मिथ्यादृष्टेरज्ञाने, भवहेतुत्वात् / तथाहि-मिथ्यादृष्टीनां मतिश्रुते पशुवधमैथुनादीनां धर्मसाधकत्वेन परिच्छेदके, ततो दीर्घतरसंसारपथप्रवर्तिनी / तथा यदृच्छोपलम्भादुन्मत्तकविकल्पवत् / तथाहि-उन्मत्तकविकल्पा वस्त्वनपेक्ष्यैव यथाकथञ्चित् प्रवर्तन्ते; यद्यपि च ते कचिद्यथावस्थितवस्तुसंवादिनस्तथापि सम्यग्यथावस्थितवस्तुतत्त्वपर्यालोचनाविरहेण प्रवर्तमानत्वात् परमार्थतोऽपारमार्थिकाः; तथा मिथ्यादृष्टीनां मतिश्रुते यथावद्वस्त्वविचार्यैव प्रवर्तेते, ततो यद्यपि ते कचिद्रसोऽयं स्पर्शोऽयमित्यादाववधारणाध्यवसायाभावे संवादिनी तथापि न ते स्याद्वादमुद्रापरिभावनातस्तथाप्रवृत्ते, किन्तु यथाकथञ्चित्, अतस्ते अज्ञाने / तथा ज्ञानफलाभावात् , ज्ञानस्य हि फलं हेयस्य हानिरुपादेयस्य चोपादानम् , न च संसारात् परं किञ्चन हेयमस्ति, न च मोक्षात् परं किञ्चिदुपादेयम्, ततो भवमोक्षावेकान्तेन हेयोपादेयौ, भवमोक्षयोश्च हान्युपादाने सर्वसङ्गविरतेर्भवतः, ततः साऽवश्यं तत्त्ववेदिना कर्तव्या, सैव च तत्त्वतो ज्ञानस्य फलम् / तथा चाह भगवानुमाखातिवाचक: ज्ञानस्य फलं विरतिः, (प्रशम० पद्य० 72) इति / सा च मिथ्यादृष्टेर्नास्तीति ज्ञानफलाभावावज्ञाने मिथ्यादृष्टेर्मतिश्रुते / यदाह भाष्यसुधाम्भोनिधिः सदसदविसेसणाओ, भवहेउ जहिच्छिओवलंभाओ। नाणफलाभावाओ, मिच्छदिद्विस्स अन्नाणं // (विशे० गा० 115) इति / तथा "साईयं 7 सपज्जवसिय 8 अणाईयं 9 अपज्जवसिय 10 इच्चेयं दुवालसंग वुच्छित्तिनयट्ठयाए साईयं सपज्जवसियं, अवुच्छित्तिनयट्टयाए अणाईयं अपज्जवसियं, तं समासओ चउ सदसदविशेषणाद्भवहेतुतो यहच्छोपलम्भात् / ज्ञानफलाभावान्मिथ्यादृष्टरज्ञानम् // 2 सादिकं 7 सपर्यबसितम् 8 अनादिकम् 9 अपर्यवसितम् 10 इत्येतत् द्वादशाहं व्युच्छित्तिनयार्थतया सादिकं सपर्यवसितम्, भम्युच्छित्तिनयार्थतयाऽनादिकमपर्यवसितम्, तत् समासतश्चतुर्विध प्रजप्तम् , तद्यथा-द्रव्यतः क्षेत्रतः- कालतो