________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा अश्रुतनिश्रितबुद्धिचतुष्टयेन सह चत्वारिंशदधिकानि त्रीणि शतानि मतिज्ञानस्य मेदानां भवन्ति / यद्वा मतिज्ञानं चतुर्विधं द्रव्यक्षेत्रकालभावभेदात् / यदाहुर्निर्दलिताज्ञानसम्भारप्रसराः श्रीदेवर्द्धिवाचकवराः 'त समासओ चउविहं पन्न, तं जहा-दव्वओ खेतओ कालओ भावओ / दवओ णं आभिणिबोहियनाणी आएसेणं सबदवाई जाणइ न पासइ / खिचओ णं आभिणिबोहियनाणी आएसेणं सवं खितं जाणइ न पासइ / कालओणं आभिणिबोहियनाणी आएसेणं सबकालं जाणइ न पासइ / भावओ णं आभिणिबोहियनाणी आएसेणं सबभावे जाणइ न पासइ / (नन्दी पत्र 183-2) इति / व्याख्यातं सप्रपञ्चं मतिज्ञानम् / साम्प्रतं श्रुतज्ञानं व्याचिख्यासुराह-"चउदसहा वीसहा व सुयं"ति 'श्रुतं' श्रुतज्ञानं 'चतुर्दशधा' चतुर्दशमेदं 'विंशतिधा' विंशतिप्रकारं वा भवतीति // 5 // तत्र प्रथमं श्रुतस्य चतुर्दश मेदान् व्याख्यानयनाह __ अक्खर सन्नी सम्म, साईअं खलु सपज्जवसियं च / गमियं अंगपविटं, सत्त वि एए सपडिवक्खा // 6 // इह श्रुतशब्दः पूर्वगाथातः सम्बध्यते / ततोऽक्षरश्रुतं 1 संज्ञिश्रुतं 2 सम्यक्श्रुतं 3 सादिश्रुतं 4 सपर्यवसितश्रुतं 5 गमिकश्रुतम् 6 अङ्गप्रविष्टश्रुतम् 7 इत्येते सप्त भेदाः सपतिपक्षाः श्रुतस्य चतुर्दश मेदा भवन्ति / तथाहि-अक्षरश्रुतप्रतिपक्षम् अनक्षरश्रुतम् 1 एवमसंज्ञिश्रुतं 2 मिथ्याश्रुतम् 3 अनादिश्रुतम् 4 अपर्यवसितश्रुतम् 5 अगमिकश्रुतम् 6 अङ्ग- . बाह्यश्रुतम् 7 इति / तत्राक्षरं विधा-संज्ञाव्यञ्जनलब्धिभेदात् / उक्तं च "तं सन्नावंजणलद्धिसन्नियं तिविहमक्खरं भणियं / सुबहुलिविभेयनिययं, सन्नक्खरमक्खरागारो // (विशे० गा० 464) सुबहयो या एता अष्टादश लिपयः श्रूयन्ते, तथाहिहंसेलिवी 1 भूयलिवी 2, जक्खी 3 तह रक्खसी 4 य बोधवा / . उड्डी 5 जवणि 6 तुरुक्की 7, कीरी 8 दविडी 9 य सिंघविया 10 // . मालविणी 11 नडि 12 नागरि 13, लाडलिवी 14 पारसी 15 य बोधवा / तह अनिमित्तीय 16 लिवी, चाणक्की 17 मूलदेवी य 18 // १°ववाचक क० उ०॥ 2 तत् समासतश्चतुर्विध प्रज्ञप्तम्, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः। द्रव्यतः णमिति वाक्यालङ्कारे (एवं सर्वत्र) आभिनिबोधिकज्ञानी आदेशेन सर्वद्रव्याणि जानाति न पश्यति / क्षेत्रतः आभिनिबोधिकज्ञानी आदेशेन सर्व क्षेत्रं जानाति न पश्यति / कालतः आमिनिबोधिकज्ञानी आदेशेन सर्व कालं जानाति न पश्यति / भावतः आमिनिबोधिकज्ञानी आदेशेन सर्वान् भावान् जानाति न पश्यति॥. 3 °कार भवक०ख०ग०॥४तत् संज्ञाव्यजनलब्धिसंज्ञिक त्रिविधमक्षरं भणितम् / सुबहुलिपिमेदनियतं संज्ञाक्षरमक्षराकारः॥५ हंसलिपिभूतलिपियक्षी तथा राक्षसी च बोद्धव्या। औड़ी यवनी तुरुष्की कीरी द्राविडी च सिन्धविका // 6 पुरुक्की क०ख०ग०3०॥ मालविनी नटी नागरी लाटलिपिः पारसी च बोदव्या / तथाऽनिमित्तिका लिपिचाणक्या मूलदेवी च //