________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा उक्तं च नन्यध्ययने से किं तं वंजणुग्गहे ! वंजणुग्गहे चउबिहे पन्न, तं जहा-सोइंदियवंजणुग्गहे पाणिदियवंजणुग्गहे रसणिंदियवंजणुग्गहे फासिंदियवंजणुग्गहे // (नन्दी पत्र 169-2) मनोनयनयोर्वर्जनं किमर्थम् ! इति चेद् उच्यते-मनोनयनयोरप्राधकारित्वात् , अप्राप्तकारित्वं च विषयकृतानुग्रहोपघातशून्यत्वात् , प्राप्तकारित्वे पुनरनलजलशल्यादीनां चिन्तनेडवलोकने च दहनक्लेदनपाटनादयः स्युः / अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थ नालम्बत इत्येतावनियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ दिनकरकिरणादिनेति / __ अन्यस्त्वाह-व्यवहितार्थानुपलब्धेरनुमानात् प्राप्तकारित्वं लोचनस्येति, एतदयुक्तम् , अनैकान्तिकत्वात् , काचाम्रपटलस्फटिकान्तरितस्याप्युपलब्धेः / स्यादेतत् , नायना रश्मयो निर्गत्य तमर्थ गृहन्तीति दर्शनरश्मीनां तैजसत्वात् तेजोद्रव्यैरप्रतिस्खलनाददोष इति, एतदप्ययुक्तम्, महाज्वालादौ प्रतिस्खलनोपलब्धेरित्यत्र बहु वक्तव्यम् तत्तु नोच्यते, ग्रन्थगहनताप्रसन्नात् / व्यञ्जनावग्रहस्य च कालो जघन्य आवलिकासख्येयभागतुल्यः, उत्कृष्ट आनप्राणपृथक्त्वम् / उक्तं च वणवग्गहकालो, आवलियअसंखभागतुल्लो उ / थोवो उक्कोसो पुण, आणापाणप्पहुत्तं ति // इति // 4 // उक्तश्चतुर्धा व्यञ्जनावग्रहः / अथार्थावग्रहादीन् व्याचिख्यासुराह अत्थुग्गहइंहावायधारणा करणमाणसहि छहा / . इय अहवीसभेयं, चउदसहा वीसहा व सुयं // 5 // अर्यत इत्यर्थस्तस्य शब्दरूपादिभेदानामन्यतरेणापि भेदेनानिर्धारितस्य सामान्यरूपस्सावनहणमर्थावग्रहः, किमपीदमित्यव्यक्तज्ञानमित्यर्थः / स च करणमानसैः षोढा भवति, तत्र करणानि चेन्द्रियाणि पञ्च मानसं च मनः करणमानसानि तैः करणमानसैः कृत्वा / इदमुक्त भवति-श्रोत्रेन्द्रियार्थावग्रहः 1 चक्षुरिन्द्रियार्थावग्रहः 2 प्राणेन्द्रियार्थावग्रहः 3 रसनेन्द्रियार्थावग्रहः 4 स्पर्शनेन्द्रियार्थावग्रहः 5 मानसार्थावग्रहः 6 इति पोदाऽर्थावग्रहः / तथाऽवगृहीतस्यैव वस्तुनः 'किमयं भवेत् स्थाणुरेव ! न तु पुरुषः' इत्यादिवस्तुधर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा, ईहनमीहेति कृत्वा।। अरण्यमेतत् सविताऽस्तमागतो, न चाधुना सम्भवतीह मानवः / प्रायस्तदेतेन खगादिभाजा, भाव्यं सरारातिसमाननाम्ना // इत्याचन्वयधर्मघटनव्यतिरेकघर्मनिराकरणाभिमुखतालिजितो ज्ञानविशेष ईहेति हृदयम् / साऽपि करणमानसैः षोदैव / तथा ईहितस्यैव वस्तुनः स्थाणुरेवायमिति निश्चयात्मको बोधविशेषोऽपायः, अयमपि करणमानसैः षोढा / तथा निश्चितस्यैवाविच्युतिस्मृतिवासनारूपं धरणं - 1 अथ कोऽसौ व्यजनावग्रहः? व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियव्यजनावप्रहो घ्राणेन्द्रियव्यजनावग्रहो रसनेन्द्रियव्यजनावग्रहः सर्गेन्द्रियव्यजनावग्रहः // 2 व्यजनावग्रहकाल आवलिकासयभागतुत्यस्तु / खोक उत्कृष्टः पुनरानप्राणपृथक्त्वमिति // 3 स्थाणुनानेत्यर्थः॥.