________________ कर्मविपाकनामा.प्रथमः कर्मग्रन्थः / ___ 'से किं तं मइनाणं ! मइनाणं दुविहं पन्नतं, तं जहा-सुयनिस्सियं च अस्सुयनिस्सियं च / से किं तं अस्सुयनिस्सियं ! अस्सुयनिस्सियं चउविहं पन्नतं, तं जहा उप्पत्तिया वेणइया, कम्मिया परिणामिया / बुद्धी चउबिहा वुत्ता, पंचमा नोवलब्भई // (नन्दी पत्र.१४४-१) तत्रौत्पत्तिकी बुद्धिर्यथा रोहकस्य / वैनयिकी बुद्धिः पददर्शनात्करिण्यादिज्ञायकच्छात्रस्येव / कर्मजा कर्षकस्येव / पारिणामिकी श्रीवज्रस्वामिन इव / यत्तु पूर्व श्रुतपरिकर्मितमतेर्व्यवहारकाले पुनरश्रुतानुसारितया समुत्पद्यते तत् श्रुतनिश्रितम् / यदुक्तं श्रीविशेषावश्यके पुँवं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं / तं निस्सियमियरं पुण अणिस्सियं मइचउक्कं तं // (विशे० गा० 169) तञ्चतुर्धा भवति, तद्यथा-अवग्रह ईहा अपायः धारणा / यदाह "से किं तं सुयनिस्सियं मइनाणं ! सुयनिस्सियं मइनाणं चउव्विहं पन्नतं, तं जहाउग्गहो ईहा अवाए धारणा // (नन्दी पत्र 168-1) पुनरवग्रहो द्वेधा-व्यञ्जनावग्रहः अर्थावग्रहश्च / आह च से किं तं उग्गहे ? उग्गहे दुविहे पर्नते, तं जहा-वंजणुग्गहे अत्युग्गहे य // (नन्दी पत्र 168-2) तत्र व्यज्यते-प्रकटीक्रियतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम् / आह च जिजइ जेणत्यो घडु व दीवेण वंजणं तं च / (विशे० गा० 194) तच्चोपकरणेन्द्रियं कदम्बपुष्पातिमुक्तकपुष्पक्षुरप्रनानाकृतिसंस्थितश्रोत्रघ्राणरसनस्पर्शनलक्षणं शब्दगन्धरसस्पर्शपरिणतद्रव्यसङ्घातो वा / ततश्च व्यञ्जनेनोपकरणेन्द्रियेण व्यञ्जनानां शब्दा. दिपरिणतद्रव्याणामवग्रहणं परिच्छेदनमेकस्य व्यञ्जनशब्दस्य लोपाव्यञ्जनावग्रहः,, किमपीदमित्यव्यक्तज्ञानरूपार्थावग्रहादधोऽव्यक्ततरं ज्ञानमित्यर्थः / अयं चतुर्धा / यदाह सूत्रकृत्"वंजणवग्गहु चउह" ति स्पष्टम् / चातुर्विध्यमेव भावयति-"मणनयणविणिंदियचउक्क"ति मनश्च मानसं नयनं च लोचनं मनोनयने, मनोनयने विना मनोनयनविना, "नाम नाम्नैकायें समासो बहुलम्" (सि० 3-1-18) इति समासः / इन्द्रियाणां चतुष्कमिन्द्रियचतुष्कं तस्माद् इन्द्रियचतुष्कात्, अत्र “गम्ययपः कर्माधारे" (सि० 2-2-71) इति पञ्चमी / मनोनयनवर्जमिन्द्रियचतुष्कमाश्रित्य व्यञ्जनावग्रहश्चतुर्धा भवतीति भावार्थः। अथ किं तद् मतिज्ञानम् , मतिज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-श्रुतनिधितं चाश्रुतनिश्रितं च / अब कि तदश्रुतनिधितम् ? अश्रुतनिधितं चतुर्विधं प्रज्ञप्तम्, तद्यथा-औत्पत्तिकी वैनयिकी, कर्मजा पारिणामिकी। बुदिचतुर्विधा प्रोका, पश्चमी नोपलभ्यते ॥२°पारि० ख० ग०॥ 3 पूर्व श्रुतपरिकर्मितमतेर्यत् साम्प्रतं श्रुतातीतं / तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् // 4 अथ किं तत् श्रुतनिधितं मविज्ञानम् / श्रुतनित्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्तम्, तद्यथा-अवग्रह ईहा अपायः धारणा // 5 अथ कोऽसाववप्रहः? अवअहो द्विविधः प्रज्ञप्तः, तद्यथा-व्यञ्जनावग्रहोऽर्थावग्रहश्च // ६°चत्ते वंजक०ग०॥७व्यज्यते येनार्यः घट इस दीपेन व्यजनं तच // 8 कचन्द्रक्षुक० / कपुष्पचन्द्रक्षु घ०3०॥