________________ देवेन्द्रसूरिविरचितखोपटीकोपेतः [गाया श्रुतज्ञानम् , खपरप्रत्यायकत्वात् / तथा चामूनेव हेतून् संगृहीतवान् भाष्यसुधाम्भोनिधिः लक्खणभेया हेउफलभावओ मेयइंदियविभागा। वागक्खरमूयेयरभेया मेओ मइसुयाणं // (विशे० गा० 97) तथा कालविपर्ययखामित्वलाभसाधर्म्यान्मतिश्रुतज्ञानानन्तरमवधिज्ञानम् , तथाहि-अप्रतिपतितैकसत्त्वाधारापेक्षयाऽवस्थितिकालोऽवधिज्ञानस्य षट्षष्टिसागरोपमाणि / तथा यथैव मतिश्रुतज्ञाने मिथ्यात्वोदयतो विपर्ययतामासादयतस्तथाऽवधिज्ञानमपि, तथाहि-मिथ्यादृष्टेः सतस्तान्येव मतिश्रुतावधिज्ञानानि मत्यज्ञानश्रुताज्ञानविभनशानानि भवन्ति / उक्तं च आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् // (प्रशम० पद्य 227) इति / तथा य एव मतिश्रुतयोः स्वामी स एवावधिज्ञानस्यापि / तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभसंभवततो लामसाधर्म्यम् / अवधिज्ञानानन्तरं च छद्मस्थविषयभावप्रत्यक्षत्वसाधान्मनःपर्यायज्ञानमुक्तम् , तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति तथा मनःपर्यायज्ञानमपि इति छद्मस्थसाधर्म्यम् / तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयं तथा मनःपर्यायज्ञानमपि, तस्य मनःपुद्गलाऽऽलम्बनत्वाद् इति विषयसाधर्म्यम् / तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे वर्तते तथा मनःपर्यायज्ञानमपि इति भावसाधर्म्यम् / तथा यथाऽवधिज्ञानं प्रत्यक्षं तथा मनःपर्यायज्ञानमपि इति प्रत्यक्षत्वसाधर्म्यम् / उक्तं च कालविवज्जयसामित्तलामसाहम्मओऽवही तत्तो / माणसमित्तो छउमत्थविसयभावाइसाहम्मा // (विशे० गा० 87) तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानस्योपन्यासः, सर्वोत्तमत्वाद् अप्रमत्तयतिखामिसापउत् सर्वावसाने लाभाच / तथाहि-सर्वाण्यपि मतिज्ञानादीनि ज्ञानानि देशतः परिच्छेदकानि, केवलज्ञानं तु सकलवस्तुस्तोमपरिच्छेदकं सर्वोत्तमम् , सर्वोत्तमत्वाच्चान्ते सर्वशिरःशेखरकल्पमुपन्यस्तम् / तथा यथा मनःपर्यवज्ञानमप्रमत्तयतेरेवोत्पद्यते तथा केवलज्ञानमपि इत्यप्रमत्तयतिखामिसाधर्म्यम् / तथा यः सर्वाण्यपि ज्ञानानि समासादयितुं योग्यः स नियमात् सर्वज्ञानावसाने केवलज्ञानमवामोति, ततः सर्वान्ते केवलमुक्तम् / उक्तं च 'अंते केवलमुत्तमजइसामित्तावसाणलामाओ // (धर्मसं० गा० 85) इति // व्याख्यातानि नामसंस्कारमात्रेण पञ्चापि ज्ञानानि / अथामून्येव सविस्तरं . व्यारिल्यामुः प्रथमं मतिज्ञानं प्रकटयन्नाह-"तत्य मइनाणं" इत्यादि / 'तत्र' तेषु पञ्चसु ज्ञानेषु मतिज्ञानमष्टाविंशतिभेदं भवतीत्युत्तरगाथायां सम्बन्धः / इह किल द्वेधा मतिज्ञानम्-श्रुतनिश्रितमश्रुतनिश्रितं च / तत्र च यत् प्रायः श्रुताभ्यासमन्तरेणापि सहजविशिष्टक्षयोपशमवशादुत्पद्यते तद् अश्रुतनिश्रितमौत्पत्तिक्यादिबुद्धिचतुष्टयम् , यदाह श्रीदेवर्द्धिवाचक: 1 लक्षणमेदाद् हेतुफलभावतो भेदेन्द्रियविभागात् / वल्काक्षरमूकेतरमेदाढ़ेदो मतिश्रुतयोः // २°लो मतिश्रुतयोरिवावधि ग०3०॥३ कालविपर्ययखामित्वलाभसाधर्म्यतोऽवधिः ततः। मानसं (मनःपर्याय) इतः छद्मस्थविषयभावादिसाधर्म्यात् // 4 °कल्पे उप° क० घ००॥ 5 अन्ते केवलमुत्तमयतिखा. मित्वानसानलाभात् //