________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः / य॑म् / तथा यथा मतिज्ञानमादेशतः सर्वव्यादिविषयमेवं श्रुतज्ञानमपि इति विषयसाधर्म्यम् / यथा च मतिज्ञानं परोक्षं तथा श्रुतज्ञानमपि इति परोक्षत्वसाधर्म्यम् / तत इत्यं खाम्यादिसाधादेते मतिश्रुते नियमादेका वक्तव्ये, ते चावध्यादिज्ञानेभ्यः प्रागेव, तद्भाव एवाऽवध्यादिसद्भावात् / उक्तं च जं सामिकालकारणविसयपरोक्खत्तणेहि तुल्लाई / सब्भावे सेसाणि य, तेणाऽऽईए महसुयाइं // (विशे० गा० 85) ननु भवतामेकत्र मतिश्रुते, प्रागेव चावध्यादिभ्यः, परमेतयोरेव मतिश्रुतयोर्मध्ये पूर्व मतिः पश्चात् श्रुतमित्येव तत् कथम् ! उच्यते-मतिपूर्वत्वात् श्रुतज्ञानस्य, तथाहि-सर्वत्रापि पूर्वमवग्रहादिरूपं मतिज्ञानमुदयते पश्चात् श्रुतम् / यदाह निविडजडिमसम्भारतिरस्कारतरणिः श्रीजिनभद्रगणिक्षमाश्रमण: मइपुवं सुयमुत्तं, न मई सुयपुखिया विसेसोऽयं / पुर्व पालणपूरणभावाओ 5 मई तस्स // (विशे० गा० 105) नन्यध्ययनचूर्णावप्युक्तम्तेसै वि य मइपुवयं सुयं ति किचा पुर्व मइनाणं कयं, तप्पिट्टओ सुयं ति // (पत्र 11) __ आह-यदि खामित्वादिभिरनयोरभेदस्तहि द्वयोरप्येकत्वमस्तु, मैदहेत्वमावाद् अभेदहेतूना चाभिहितत्वात् , तदयुक्तम् , भेदहेत्वभावस्यासिद्धत्वात् / तथाहि-खाम्यादिभिर मेदे सत्यपि लक्षणभेदादनयोर्भेदः, तथाहि-मन्यते योग्योऽर्थोऽनयेति मतिः, श्रवणं श्रुतमित्यादि / तथा हेतुफलभावाद् भेदः, तथाहि-मतिज्ञानं श्रुतस्य कारणम् , श्रुतं तु कार्यम् / यञ्च यदुत्कर्षापकर्षवशादुत्कर्षापकर्षभाक् तत् तस्य कारणम् , यथा घटस्य मृत्पिण्डः, तथाहि-श्रुतेष्वपि बहुषु अन्थेषु यद्विषयं स्मरणमीहाऽपोहादि वाऽधिकतरं प्रवर्तते स ग्रन्थः स्फुटतरः प्रतिमाति न शेषः / तथा भेदभेदाद् भेदः, तथाहि-मतिज्ञानमष्टाविंशत्यादिभेदम्, श्रुतज्ञानं तु चतुर्दशादिभेदम् / तथा इन्द्रियविभागाद् भेदः, तत्प्रतिपादिका चेयं पूर्वान्तर्गता गाथा सोइंदिओवलद्धी, होइ सुयं सेसयं तु मइनाणं / मुसूणं दबसुयं, अक्खरलंभो य सेसेसु // (विशे० गा० 117) .. तथा वेस्कसमं मतिज्ञानं कारणत्वात् , शुम्बसमं श्रुतज्ञानं तत्कार्यत्वादित्यप्यनयोमेंदनिबन्धनम् / तथा इतश्च भेदः- मतिज्ञानमनक्षरं साक्षरंच, तथाहि-अवग्रहज्ञानमनक्षरम् , तस्यानिदेश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वात् ; ईहादिज्ञानं तु साक्षरम् , तस्य परामर्शादिलपतयाऽवश्यं वर्णाऽऽरुषितत्वात् ; श्रुतज्ञानं पुनः साक्षरमेव, अक्षरमन्तरेण शब्दार्थपर्यालोघनस्यानुपपत्तेः / तथा इतश्च भेदः-मूककल्यं मतिज्ञानम् , खमात्रप्रत्यायकत्वात् ; अमककल्प 1 यत् खामिकालकारणावेषयपरोक्षत्वैस्तुल्ये / तद्भावे शेषाणि च तेनाऽऽदौ मतिश्रुते // 2 मतिपूर्व श्रुत. मुकं नमतिः श्रुतपूर्विका विशेषोऽयम् / पूर्व पालनपूरणभावात् यन्मविस्वस्य (श्रुतस्य)॥३तयोरपि च मति. पूर्वकं श्रुतमिति कृत्वा पूर्व मतिज्ञानं कृतं तत्पृष्ठतः श्रुतमिति // 4 श्रोत्रेन्द्रियोपलन्धिः भवति श्रुतं शेषकंतु मतिज्ञानम् / मुक्त्वा द्रव्यश्रुतमक्षरलाभश्च शेषेषु // 5 बक्सहशम् // 6 रजुसहशम् // 7 मिश्रितलात् // क०२