________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा वरणविलये न तथाविधो मतिज्ञानादिसंज्ञितः केवलज्ञानस्य प्रकाशो भवति, किन्तु सर्वात्मना / यथावस्थितं वस्तु परिच्छिन्दन् परिस्फुटरूपोऽन्य एवेत्यदोषः / उक्तं च श्रीपूज्यैः कटविवरागयकिरणा, मेहंतरियस्स जह दिणेसस्स / ते कडमेहावगमे, न हुँति जह तह इमाई पि // अन्यैरपि न्यगादि मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः / कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः // यथा जात्यस्य रत्नस्य, निःशेषमलहानितः। स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः // अन्ये पुनराहुः-सन्त्येव मतिज्ञानादीन्यपि सयोगिकेवल्यादौ, केवलमफलत्वात् सन्त्यपि तदानीं न विवक्ष्यन्ते, यथा सूर्योदये नक्षत्रादीनि / उक्तं च- . _ अन्ने आभिणिबोहियणाणाईणि वि जिणस्स विजंति / अफलाणि य सूरुदए, जहेव नक्खत्तमाईणि // शुद्धं वा केवलम् , तदावरणमलकलङ्कपकापगमात् / सकलं वा केवलम् , तत्पथमतयैव निःशेषतदावरणविगमतः संपूर्णोत्पत्तेः / असाधारणं वा केवलम् , अनन्यसदृशत्वात् / अनन्तं वा केवलम् , ज्ञेयानन्तत्वात् अपर्यवसितानन्तकालावस्थायित्वाद्वा / निर्व्याघातं वा केवलम् , लोकेऽलोके वा कापि व्याघाताभावात् / केवलं च तद् ज्ञानं च केवलज्ञानं यथावस्थितसमस्तभूतभवद्भाविभावखभावावभासि ज्ञानमिति भावना / ___ आह-नन्वेतेषां पञ्चानां ज्ञानानामित्थं क्रमोपन्यासे किं कारणम् ! उच्यते-इह मतिश्रुते तावदेकत्र वक्तव्ये, परस्परमनयोः स्वामिकालकारण विषयपरोक्षत्वसाधर्म्यात् / तथाहिय एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य य एव श्रुतज्ञानस्य स्वामी स एव मतिज्ञानस्यापि “जैत्य मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणं" (नन्दी पत्र 140-1) इत्यादिवचनप्रामाण्यात् , ततः खामिसाधर्म्यम् / तथा यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्यापि, तत्र प्रवाहापेक्षयाऽतीतानागतवर्तमानरूपः सर्वकालः, अप्रतिपतितैकजीवापेक्षया षट्षष्टिसागरोपमाणि समधिकानि, उक्तं च दो वारे विजयाइसु, गयम्स तिन्नऽचुए अहव ताई। अइरेगं नरभवियं, नाणाजीवाण सधद्धा // (विशे० गा० 2762) इति कालसाधर्म्यम् / यथा चेन्द्रियनिमित्तं मतिज्ञानं तथा श्रुतज्ञानमपीति कारणसाध१ कटविवरागतकिरणाः, मेघान्तरितस्य यथा दिनेशस्य / ते कटमेघापगमे, न भवन्ति यथा तथेमान्यपि // 2 अन्ये आमिनिवोधिकज्ञानादीन्यपि जिनस्य विद्यन्ते / अफलानि च सूर्योदये यथैव नक्षत्रादीनि // 3 यत्र मतिज्ञानं तत्र श्रुतज्ञानं यत्र श्रुतज्ञानं तत्र मतिज्ञानम् // 4 द्वौ वारौ विजयादिषु, गतस्य त्रीन् (वारान् ) अच्युतेऽथवा तानि ( सागराणि 66) / अतिरेकं नरभविक नानाजीवानां सर्वाद्धा॥