________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः / ज्ञानं चाऽऽभिनिबोधिकज्ञानम् / तथा श्रवणं श्रुतम्-अमिलापप्लावितार्थग्रहणहेतुरुपलब्धिवि- . शेषः, एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमवि. शेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् / तथाऽवधानमवधिः-इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् , अत एवेदं प्रत्यक्षज्ञानम् / यदुक्तं नन्द्यध्ययने 'नोइंदियपच्चक्खं तिविहं पन्नतं, तं जहा-ओहिनाणपञ्चक्खं मणपज्जवनाणपञ्चक्खं केवलनाणपञ्चक्खं (नन्दी पत्र 76-2) / __ अथवा अवशब्दोऽधःशब्दार्थः, अव-अघोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, यद्वा अवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमप्यवधिः,, अवधिश्च तद् ज्ञानं चावधिज्ञानम् / तथा परिः-सर्वतोभावे, अवनम् अवः, "तुदादिभ्योऽन्कौ" इत्यधिकारेऽकितौ चेत्यनेन औणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवो मनःपर्यवः-सर्वतस्तत्परिच्छेद इत्यर्थः, मनःपर्यवश्च स ज्ञानं च मनःपर्यवज्ञानम् / यद्वा मनःपर्यायज्ञानम्, तत्र संज्ञिभिजीवैः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणाद्रव्याणि चिन्तनीयवस्तुचिन्तनव्याहतेन मनोयोगेन मनस्त्वेन परिणमय्याऽऽलम्ब्यमानानि मनांसीत्युच्यन्ते, तेषां मनसां पर्यायाःश्चिन्तनानुगताः परिणामा मनःपर्यायाः, तेषु तेषां वा संबन्धि ज्ञानं मनःपर्यायज्ञानम् / यद्वा आत्मभिर्वस्तुचिन्तने व्यापारितानि मनांसि पति-अवगच्छतीति मनःपर्यायम् , “कर्मणोऽण्" (सि० 5-1-72 ) इति अण्प्रत्ययः, मनःपर्यायं च तद् ज्ञानं च मनःपर्यायज्ञानम् / तथा केवलम्-एकं मत्यादिज्ञानरहितत्वात् "नेहम्मि उ छाउमथिए नाणे" (आव०नि० गा० 539) इति वचनप्रामाण्यात् / आह-यदि मत्यादीनि ज्ञानानि खखावरणक्षयोपशमभावेऽपि प्रादुःषन्ति ततो निःशेषतः खखावरणक्षये सुतरां भवेयुश्चारित्रपरिणामवत् , तत् कथं तेषां तदानीमभावः!, आह च आवरणदेसविगमे, जाइं विजंति मइसुयाईणि / आवरणसवविगमे, कह ताइँ न हुंति जीवस्स ! // इति / - उच्यते-इह यथा सहस्रभानोरतिसमुन्नतघनाघनघनपटलान्तरितस्यापान्तरालावस्थितकटकुट्याद्यावरणविवरप्रविष्ट[:] प्रकाशो घटपटादीन् प्रकाशयति, तथा केवलज्ञानावरणावृतस्य केवलज्ञानस्यापान्तरालमतिज्ञानावरणादिक्षयोपशमरूपविवरविनिर्गतः प्रकाशो जीवादीन् प्रकाशयति, स च तथा प्रकाशयन् मतिज्ञानमित्यादिलक्षणं तत्तत्क्षयोपशमानुरूपमभिधानमुद्वहति ततो यथा सकलघनपटलकटकुट्याद्यावरणापगमे स तथाविधः प्रकाशः सहस्रमानोरस्पष्टरूपो न भवति किन्तु सर्वात्मना स्फुटरूपोऽन्य एव, तथेहापि सकलकेवलज्ञानावरणमतिज्ञानाद्या १नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तम् , तद्यथा-अवधिज्ञानप्रत्यक्षं मनःपर्यवज्ञानप्रत्यक्षं केवलज्ञानप्रत्यक्षम् // 2 नष्टे तु छानस्थिके ज्ञाने // 3 आवरणदेशविगमे, यानि विद्यन्ते मतिश्रुतादीनि / आवरणसर्व( सर्वावरण) विगमे, कथं तानि न भवन्ति जीवस्य //