________________ देवेन्द्रसूरिविरचितखोपज्ञदीकोपैतः . [गाथा पाकमुपदर्शयन्ती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः। तथाहि-ज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचारासमर्थमात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञयाऽभिजानानो बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते; तथाऽतिनिबिडदर्शनावरण. विपाकोदये जात्यन्धादिरनुभबति दुःखसन्दोहं वचनगोचरातिक्रान्तम् , दर्शनावरणक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद् वस्तुनिकुरम्बं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहम् , तत एतदर्थप्रतिपत्त्यर्थ दर्शनावरणानन्तरं वेदनीयग्रहणम् / वेदनीयं च सुखदुःखे जनयति, अभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ, तौ च मोहनीयहेतुकौ, तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणम् / मोहनीयमूढाश्च जन्तवो बहारम्भपरिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति, ततो मोहनीयानन्तरमायुम्रहणम् / नरकाद्यायुष्कोदये चावश्यं नरकगत्यादीनि नामान्युदयमायान्ति, तत आयुरनन्तरं नामग्रहणम् / नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यम् , अतो नामग्रहणानन्तरं गोत्रग्रहणम् / गोत्रोदये चोचैःकुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् ; नीचैःकुलोत्पन्नस्य तु दानलाभान्तरायाधुदयः, नीचजातीनां तथादर्शनात् ; तत एतदर्थप्रतिपत्त्यर्थ गोत्रानन्तरमन्तरायग्रहणमिति // 3 // अथ 'यथोद्देशं निर्देशः' इति न्यायात् प्रथमं तावत् पञ्चधा ज्ञानावरणं व्याचिख्यासुराह महसुयओहीमणकेवलाणि नाणाणि तत्थ मइनाणं / वंजणवग्गहु चउहा, मणनयणविणिंदियचउक्का // 4 // . इह ज्ञानशब्दस्य प्रत्येकं सम्बन्धाद् मतिज्ञानम् , श्रुतज्ञानम् , अवधिज्ञानम् , “मण ति" पदैकदेशे पदसमुदायोपचारात् मनःपर्थवज्ञानं मनःपर्यायज्ञानं वा, केवलज्ञानम् / तत्र "बुधिं मनिंच ज्ञाने" मननं मतिः, यद्वा मन्यते-इन्द्रियमनोद्वारेण नियतं वस्तु. परिच्छिद्यतेऽनयेति मतिः-योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः, मतिश्च . सा ज्ञानं च मतिज्ञानम् / इदं चाऽऽगमे आमिनिबोधिकज्ञानमुच्यते / यदाह भगवान् देवर्द्धिक्षमाश्रमणःनाणं पंचविहं पन्नतं, तं जहा-आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं / (नन्दी पत्र 65-1) / __तत्र चायमाभिनिबोधिकज्ञानशब्दार्थः—अभि-इत्याभिमुख्ये, नि-इति नैयत्ये, ततश्चाभिमुखः-वस्तुयोग्यदेशावस्थानापेक्षी नियतः-इन्द्रियमनः समाश्रित्य खखविषयापेक्षी बोधनं बोधोऽभिनिबोधः, स एवाऽऽभिनिबोधिकम् , विनयादेराकृतिगणत्वादिकण्प्रत्ययः, अभिनिबुध्यत इत्यभिनिबोध इति कर्तरि लिहादित्वादच् वा, यद्वाऽभिनिबुध्यते आत्मना स इत्यभिनिबोध इति, कर्मणि घ, स एवाऽऽभिनिबोधिकमिति तथैव, आभिनिबोधिकं च तद् 1 ज्ञानं पश्वविधं प्रज्ञप्तम् , तद्यथा-आमिनिबोधकज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानम् //