________________ कर्मविपाकनामा प्रथमः कर्मग्रन्थः / याऽनुभूयते यत् तद् वेद्यम् , “य एचातः" (सि० 5-1-28) इति यप्रत्यये वेदनीयम् / यद्यपि सर्व कर्म वेद्यते तथापि पङ्कजादिशब्दवद् वेद्यशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेद्यमित्युच्यते न शेषम् / तथा मोहयति-जानानमपि प्राणिनं सदसद्विवेकविकलं करोतीति मोहः, लिहादित्वादच्प्रत्ययः, मोहनीयमित्यर्थः / तथा एति-गच्छत्यनेन गत्यन्तरमित्यायुः, यद्वा एति-आगच्छति प्रतिबन्धकतां खकृतकर्मावाप्तनरकादिदैर्गतेर्निर्गन्तुमनसोऽपि जन्तोरित्यायुः, उभयत्रापि औणादिको गुस्पत्ययः, यद्वा आयाति-भवाद् भवान्तरं सङ्कामतां जन्तूनां निश्चयेनोदयमागच्छति "पृषोदरादयः” (सि० 3-2-155) इत्यायुःशब्दसिद्धिः / यद्यपि च सर्व कर्म उदयमायाति तथाप्यस्त्यायुषो विशेषः, यतः शेषं कर्म बद्धं सत् किञ्चित्तस्मिन्नेव भवे उदयमायाति, किञ्चित्तु प्रदेशोदयमुक्तं जन्मान्तरेऽपि खविपाकत उदयं नायात्येव इत्युभयथाऽपि व्यभिचारः आयुषि त्वयं नास्ति, बद्धस्य तस्मिन्नेव भवेऽवेदनात् , जन्मान्तरसङ्क्रान्तौ तु खविपाकतोऽवश्यं वेदनादिति विशिष्टस्यैवोदयागमनस्य विवक्षितत्वात् तस्य चायुष्येव सद्भावात् तस्यैवैतन्नाम / अथवा आयान्त्युपभोगाय तमिन्नुदिते सति तद्भवप्रायोग्याणि सर्वाण्यपि शेषकर्माणीत्यायुः / तथा नामयति-गतिजातिप्रभृतिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम / तथा 'गुङ शब्दे' गूयतेशब्द्यत उच्चावचैः शब्दैरात्मा यस्मात् तद गोत्रम् / ततो ज्ञानदर्शनावरणं च वेद्यं च मोहश्चायुश्च नाम च गोत्रं च ज्ञानदर्शनावरणवेद्यमोहायुर्नामगोत्राणि / तथा विशेषेण हन्यन्ते-दानादिलब्धयो विनाश्यन्तेऽनेनेति "स्थास्नायुधिव्याधिहनिभ्यः कः" इति कप्रत्यये 'विघ्नम्' अन्तरायम् / 'चः' समुच्चये / “पणनवदुअट्ठवीस"इत्यादि / अत्र द्वन्द्वगों बहुव्रीहिसमासः / भावार्थः पुनर' यम्-पञ्चविधं ज्ञानावरणम् , नवविधं दर्शनावरणम् , द्विविधं वेद्यम् , अष्टाविंशतिविधो मोहः, चतुर्विधमायुः, त्रिशतविधं नाम, त्रिभिरधिकं शतं त्रिशतं-व्युत्तरशतविधमित्यर्थः, द्विविध गोत्रम् , पञ्चविधं विघ्नमिति / / - अत्राह-नन्वित्थं ज्ञानावरणाद्युपन्यासे किश्चिदस्ति प्रयोजनम् ? उत यथाकथञ्चिदेष प्रवृत्तः ? इति, अस्तीति ब्रूमः / किं तद् ! इति चेद् उच्यते-इह ज्ञानं दर्शनं च जीवस्य खतत्त्वभूतम् , तदभावे जीवत्वस्यैवायोगात्, चेतनालक्षणो हि जीवः, ततः स कथं ज्ञानदर्शनाभावे भवेत् ?; ज्ञानदर्शनयोरपि च मध्ये प्रधानं ज्ञानम् , तद्वशादेव सकलशास्त्रादिविचारसन्ततिप्रवृत्तेः / अपि च–सर्वा अपि लब्धयो जीवस्य साकारोपयोगोपयुक्तस्योपजायन्ते, न दर्शनोपयोगोपयुक्तस्य, “सेवाओ लद्धीओ सागारोवओगोवउत्तस्स, नो अणागारोवओगोवउ. तस्स" इति वचनप्रामाण्यात् / अन्यच्च यस्मिन् समये सकलकर्मविनिर्मुक्तो जीवः सञ्जायते तस्मिन् समये ज्ञानोपयोगोपयुक्त एव, न दर्शनोपयोगोपयुक्तः, दर्शनोपयोगस्य द्वितीयसमये भावात् , ततो ज्ञानं प्रधानम् , तदावारकं च ज्ञानावरणं कर्म, ततस्तत् प्रथममुक्तम् / तदनन्तरं च दर्शनावरणम् , ज्ञानोपयोगाच्युतस्य दर्शनोपयोगेऽवस्थानात् / एते च ज्ञानदर्शनावरणे खवि 1 ज्ञानिनमपि ग० // 2 दुर्गतेर्निष्क्रमितुम ख०॥ 3 सर्वा लन्धयः साकारोपयोगोपयुक्तस्य नोऽनाकारोपयोगोपयुक्तस्य //