________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा ठिईबंधु दलस्स ठिई, पएसबंधो पएसगहणं जं / ताण रसो अणुभागो, तस्समुदाओ पगइबंधो॥ (पञ्चसं० गा० 432) अन्यत्राप्युक्तम् प्रकृतिः समुदायः स्यात् , स्थितिः कालावधारणम् / अनुभागो रसः प्रोक्तः, प्रदेशो दलसञ्चयः // इदं च प्रकृतिस्थितिरसप्रदेशानां खरूपं 'मोदकस्य' कणिक्कादिमयलड्डुकस्य 'दृष्टान्तात्' दृष्टान्तेन भावनीयम् / दृष्टान्तादित्यत्र तृतीयार्थे पञ्चमी / यदाह पाणिनिः स्वप्राकृतलक्षणे"व्यत्ययोऽप्यासाम्" इति / यथा वातविनाशिद्रव्यनिष्पन्नो मोदकः प्रकृत्या वातमुपशमयति, पित्तोपशमकद्रव्यनिवृत्तः पित्तम् , कफापहारिद्रव्यसमुद्भूतः कफमित्येवंखभावा प्रकृतिः / स्थितिस्तु तस्यैव कस्यचिदिनमेकम् , अपरस्य तु दिनद्वयम् , एवं यावत् कस्यचिन्मासादिकमपि कालं मवति ततः परं विनाशादिति / रसः पुनः स्निग्धमधुरादिरूपस्तस्यैव कस्यचिदेकगुणः, अपरस्य द्विगुणः, अन्यस्य त्रिगुण इत्यादिकः / प्रदेशाश्च कणिकादिरूपास्तस्यैव कस्यचिदेकप्रसूतिप्रमाणाः, अन्यस्य तु प्रसूतिद्वयप्रमाणाः, यावदपरस्य सेतिकादिप्रमाणाः। एवं कर्मणोऽपि कस्यचिद् ज्ञानाच्छादनखभावा प्रकृतिः, अपरस्य दर्शनावरणरूपा, अन्यस्याऽऽहादादिप्रदानलक्षणा, कस्यचित् सम्यग्दर्शनादिविघातजननखभावेत्यादि / स्थितिश्च तस्यैव कस्यचित् त्रिंशसागरोपमकोटीकोटीरूपा, अपरस्य तु सप्ततिसागरोपमकोटाकोटिलक्षणेत्यादि / रसस्त्वनुभागशब्दवाच्यस्तस्यैवैकस्थानद्विस्थानत्रिस्थानादिरूपः / प्रदेशा अल्पबहुबहुतरबहुतमादिरूपा इति / पुनः किंविशिष्टं तत् कर्म भवति ? इत्याह—"मूलपगइऽ? उत्तरपगईअडवन्नसयभेयं" ति मूलप्रकृतयः सामान्यरूपाः 'अष्टौ' अष्टसङ्ख्या यत्र तन्मूलप्रकृत्यष्ट, उत्तरप्रकृतीनां-मूलप्रकतिविशेषरूपाणामष्टपञ्चाशच्छतभेदा यस्य तदुत्तरप्रकृत्यष्टपञ्चाशच्छतभेदमिति // 2 // __ अधुना मूलप्रकृतिभेदतस्तस्यैवाष्टविधत्वमुत्तरप्रकृतिभेदतोऽष्टपञ्चाशच्छतभेदत्वं च प्रदर्शयन् खनामग्राहमष्टौ मूलभेदान् एकैकस्य च भेदस्य यस्य यावन्त उत्तरमेदास्तांश्च वक्तुमाह इह नाणदंसणावरणवेयमोहाऽऽउनामगोयाणि / विग्धं च पणनवदुअट्ठवीसचंउतिसयदुपणविहं // 3 // 'इह' प्रवचने कर्मोच्यते इति शेषः / “नाणदसणावरण"ति ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानम् , ज्ञातिर्वा ज्ञानम् , सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोष इत्यर्थः / तथा दृश्यतेनेनेति दर्शनम् , दृष्टिा दर्शनम् , सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः / आत्रियते-आच्छाद्यतेऽनेनेत्यावरणम् , यद्वा आवृणोति-आच्छादयति "रम्यादिभ्यः कर्तरि" (सि० 5-3-126) अनटि प्रत्यये आवरणं-मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः / ततो ज्ञानं च दर्शनं च ज्ञानदर्शने तयोरावरणं ज्ञानदर्शनावरणं ज्ञानावरणं दर्शनावरणं चेत्यर्थः / तथा वेद्यते-सुखदुःखरूपत 1 स्थितिबन्धो दलस्य स्थितिः, प्रदेशबन्धः प्रदेशग्रहणं यत् / तेषां ( कर्मपुद्रलानां ) रसोऽनुभागस्तत्समुदायः प्रकृतिबन्धः // 2 बंध ग०॥ 3 °ऽनेनेति दृष्टिक० ख० ग० घ०॥