________________ 1-2] कर्मविपाकनामा प्रथमः कर्मग्रन्थः / मुदितान्यपि मित्राणि, सुक्रुद्धाश्चैव शत्रवः / न हीमे तत् करिष्यन्ति, यन्न पूर्व कृतं त्वया // बौद्धा अप्याहुः इत एकनवतौ कल्पे, शक्त्या में पुरुषो हतः। तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः / / तदपि च कर्म पुद्गलखरूपं प्रतिपत्तव्यम् , नामूर्तम् , अमूर्त्तत्वे हि कर्मणः सकाशादात्मनामनुग्रहोपघातासम्भवात् , आकाशादिवत् / यदाह अन्ने उ अमुवं चिय, कम्मं मन्नंति वासणास्वं / तं तु न जुज्जइ ततो, उवघायाणुग्गहाभावा // - नागासं उवघायं, अणुग्गहं वा वि कुणइ सत्ताणं // इत्यादि / तच्च कर्म प्रवाहतोऽनादि, "अणाइयं तं पवाहेण" इति वचनात् / यदि प्रवाहापेक्षयाऽपि सादि स्यात् तदा जीवानां पूर्व कर्मवियुक्तत्वमासीत् पश्चादकर्मकस्य जीवस्य कर्मणा सह संयोगः सञ्जातः, एवं सति मुक्तानामपि कर्मयोगः स्यात् , अकर्मकत्वाविशेषात् , ततश्च मुक्ता अमुक्ताः स्युः, न चेदमिष्टम् , तस्मादनादिर्जीवस्य कर्मणा सह संयोगः / नन्वनादिसंयोगे कथं वियोगो जीवस्य कर्मणा सह ! उच्यते-अनादिसंयोगेऽपि वियोगो दृष्टः काञ्च. नोपलवत् / तथाहि-काश्चनोपलानां यद्यप्यनादिसंयोगस्तथापि तथाविधसामग्रीसद्भावे धमनादिना किट्टिवियोगो दृष्टः; एवं जीवस्यापि ज्ञानदर्शनचारित्रध्यानानलादिनाऽनादिकर्मणा सह वियोगः सिद्धो भवति / यदाह भगवान् भाष्यसुधाम्भोनिधिः जैर्ह इह य कंचणोवलसंयोगोऽणाइसंतइगओ वि / वुच्छिज्जइ सोवाय, तह जोगो जीवकम्माणं // (विशे० गा० 1819) इत्यलं विस्तरेण // 1 // अथ कतिभेदं कर्म ? इत्याशङ्कयाह पयइठिइरसपएसा, तं चउहा मोयगस्स दिटुंता / मूलपगइह उत्तरपगईअडवन्नसयभेयं // 2 // तत् कर्म पूर्वव्यावर्णितशब्दार्थ 'चतुर्धा' चतुष्पकारं चतुर्भदं भवतीति शेषः / कथम् ! इत्याह-“पयइठिइरसपएस" ति, इह “गम्ययपः कर्माघारे" (सिद्धहेम० 2-2-74) इति पञ्चमी, यथा प्रासादात् प्रेक्षत इति / ततश्च प्रकृतिस्थितिरसप्रदेशानाश्रित्य, प्रकृतिबन्धस्थितिबन्धरसबन्धप्रदेशबन्धतयेत्यर्थः / तत्र स्थित्यनुभागप्रदेशबन्धानां यः समुदायः स प्रकृतिबन्धः, अध्य-:वसायविशेषगृहीतस्य कर्मदलिकस्य यत् स्थितिकालनियमनं स स्थितिबन्धः, कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभागबन्धो रसबन्ध इत्यर्थः, कर्मपुद्गलानामेव यद् ग्रहणं स्थितिरसनिरपेक्षदलिकसङ्ख्याप्राधान्येनैव करोति स प्रदेशबन्धः / उक्तं च 1 अन्ये तु अमूर्तमेव कर्म मन्यन्ते वासनारूपम् / तत् तु न युज्यते तत उपघातानुग्रहाभावात् // नाकाशमुपघातमनुग्रहं वाऽपि कुरुते सत्त्वानाम् // 2 अनादिकं तत् प्रवाहेण // 3 यथेह च काश्चनोपलसंयोगोऽनादिसन्ततिगतोऽपि / व्युच्छिद्यते सोपायं तथा योगो जीवकर्मणोः // 4 ह व इह ख०॥