________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः _[गाथा म्बद्धं येन' कारणेन 'ततः' तस्मात् कारणात् कर्म भण्यत इति सम्बन्धः / केन क्रियते ! इत्याह-'जीवन' जन्तुना, तत्र जीवति-इन्द्रियपञ्चकमनोवाकायबलत्रयोच्छासनिःश्वासाऽऽयुर्लक्षणान् दश प्राणान् यथायोगं धारयतीति जीवः / क इत्थम्भूतः ? इति चेद् उच्यतेयो मिथ्यात्वादिकलुषितरूपतया सातादिवेदनीयादिकर्मणामभिनिर्वर्तकः, तत्फलस्य च विशिष्टसातादेरुपभोक्ता, नरकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता, सम्यग्दर्शनज्ञानचारित्रासप. स्वरत्नत्रयाभ्यासप्रकर्षवशाच निःशेषकर्माशापगमतः परिनिर्वाता स जीवः सत्त्वः प्राणी आत्मेत्यादिपर्यायः / उक्तं च यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च / संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः // इति / कैः कृत्वा जीवेन क्रियते ? इत्याह—'हेतुभिः' मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः सामान्यरूपैः, "पडिणीयत्तण निन्हव, पओस उवघाय अंतराएण / अच्चासायणयाए, आवरणदुर्ग जिओ जयइ // " इत्यादिभिर्विशेषप्रकारैरिहैव (गा० 53) वक्ष्यमाणैः / तदयमत्र तात्पर्यार्थः-क्रियते जीवेन हेतुभिर्येन कारणेन ततः कर्म भण्यत इति / कथमेतत्सिद्धिः ? इति चेदै उच्यते-इहात्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपं मापतिद्रमकमनीषिमन्दमहर्द्धिदरिद्रादिरूपं वा वैचित्र्यं तन्न निर्हेतुकमेष्टव्यम् , मा प्रापत् सदा भावाभावदोषप्रसङ्गः, “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्" / सहेतुकत्वाभ्युपगमे च यदेवास्य हेतुस्तदेव चास्माकं कर्मेति मतमिति तत्सिद्धिः / यदवोचाम श्रीदिनकृत्यटीकायां जीवस्थापनाधिकार एनमेवार्थम् क्ष्माभृद्रककयोर्मनीषिजडयोः सद्रूपनीरूपयोः, श्रीमदुर्गतयोर्बलाबलवतोनीरोगरोगायोः / सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्येऽपि नृत्वेऽन्तरं, यत् तत् कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् // अन्यत्राप्युक्तम् आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् / नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम् / / पौराणिका अपि कर्मसिद्धि प्रतिपद्यन्ते / तथा च ते पाहुः यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते / तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते // यत्तत्पुराकृतं कर्म, न स्मरन्तीह मानवाः। ___ तदिदं पाण्डवज्येष्ठ !, दैवमित्यभिधीयते // १पर्यायाः क० ख० घ०। 2 °कारश्चैहै ग०। 3 चेद्-इहा ख० ग०।