________________ 184 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा 'पञ्चदश योगाः' अत्रैव व्याख्यातवरूपाः / 'इति' अमुना प्रदर्शितप्रकारेण पञ्चद्वादशपञ्चविंशतिपञ्चदशलक्षणेन सप्तपञ्चाशत् पुनरुत्तरभेदा बन्धस्य भवन्तीति // प्रदर्शिता बन्धस्य मूलहेतवश्चत्वार उत्तरे सप्तपञ्चाशत्सङ्ख्याः / अधुना बन्धस्य मूलहेतून् गुणस्थानकेषु चिन्तयन्नाह- "इगचउपणतिगुणेसुं” इत्यादि। इहैवं पदघटना-'एकस्मिन्' मिथ्यादृष्टिलक्षणे गुणस्थानके चत्वारः-मिथ्यात्वाविरतिकषाययोगलक्षणाः प्रत्ययाः-हेतवो यस्य स चतुःप्रत्ययो बन्धो भवति / अयमर्थः-मिथ्यात्वादिभिश्चतुर्मिः प्रत्ययैमिथ्यादृष्टिगुणस्थानकवर्ती जन्तुर्ज्ञानावरणादिकर्म बध्नाति / तथा 'चतुर्यु' गुणस्थानकेषु साखादनमिश्राविरतदेशविरतलक्षणेषु त्रयः-मिथ्यात्वविवर्जिता अविरतिकषाययोगलक्षणाः प्रत्यया यस्य स त्रिप्रत्ययो बन्धो भवतीति / अयमर्थः-साखादनादयश्चत्वारो मिथ्यात्वोदयाभावात् तद्व स्त्रिभिः प्रत्ययैः कर्म बध्नन्ति / देशविरतगुणस्थानके यद्यपि देशतः स्थूलप्राणातिपातविषया विरतिरस्ति तथापि साऽत्पत्वाद् नेह विवक्षिता, विरतिशब्देन इह सर्वविरतेरेव विवक्षितत्वादिति / तथा 'पञ्चसु' गुणस्थानकेषु प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणेषु द्वौ प्रत्ययौ-कषाययोगाभिख्यौ यस्य स द्विप्रत्ययो बन्धो भवति / इदमुक्तं भवति-मिथ्यात्वाविरतिप्रत्ययद्वयस्य एतेप्वभावात् शेषेण कषाययोगप्रत्ययद्वयेनाऽमी प्रमत्तादयः कर्म बध्नन्तीति / तथा 'त्रिषु' उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु एक एव मिथ्यात्वाविरतिकषायाभावाद् योगलक्षणः प्रत्ययो यस्य स एकप्रत्ययो भवति / अयोगिकेवली भगवान् सर्वथाऽप्यबन्धक इति // 52 // भाविता मूलबन्धहेतवो गुणस्थानकेषु / सम्प्रत्येतानेव मूलबन्धहेतून् विनेयवर्गानुग्रहार्थमुत्तरप्रकृतीराश्रित्य चिन्तयन्नाह चउमिच्छमिच्छअविरइपच्चइया सायसोलपणतीसा। जोग विणु तिपच्चइयाऽऽहारगजिणवज सेसाओ // 53 // प्रत्ययशब्दस्य प्रत्येकं सम्बन्धात् चतुःप्रत्ययिका सातलक्षणा प्रकृतिः / मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः / मिथ्यात्वाविरतिप्रत्ययिकाः पञ्चत्रिंशत् प्रकृतयः / योगं विना 'त्रिप्रत्ययिकाः' मिथ्यात्वाविरतिकषायप्रत्ययिका आहारकद्विकजिनवर्जाः शेषाः प्रकृतय इति गाथाक्षरार्थः / भावार्थः पनरयम्-सातलक्षणा प्रकृतिश्चत्वारः प्रत्यया मिथ्यात्वाविरतिकषाययोगा यस्याः सा चतुःप्रत्ययिका, “अतोऽनेकखराद् (सि०७-२-६) इतीकप्रत्ययः, मिथ्यात्वादिभिश्चतुर्भिरपि प्रत्ययैः सातं बध्यत इत्यर्थः / तथाहि-सातं मिथ्यादृष्टौ बध्यत इति मिथ्यात्वप्रत्ययम् , शेषा अप्यविरत्यादयस्त्रयः प्रत्ययाः सन्ति, केवलं मिथ्यात्वस्य एवेह प्राधान्येन विवक्षितत्वात् ते तदन्तर्गतत्वेनैव विवक्षिताः, एवमुत्तरत्रापि / तदेव मिथ्यात्वाभावेऽप्यविरतिमत्सु साखा- . दनादिषु बध्यत इत्यविरतिप्रत्ययम् / तदेव कषाययोगवत्सु प्रमत्तादिषु सूक्ष्मसम्परायावसानेषु बध्यत इति कषायप्रत्ययम् , योगप्रत्ययस्तु पूर्ववत् तदन्तर्गतो विवक्ष्यते / तदेवोपशान्तादिषु केवलयोगवसु मिथ्यात्वाविरतिकषायाभावेऽपि बध्यत इति योगप्रत्ययमिति / एवं सातलक्षणा प्रकृतिश्चतुःप्रत्ययिका / तथा मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः / इह यासां कर्मस्तवे"नरयतिग 3 जाइ 4 थावरचउ 4 हुंडा १ऽऽयव 1 छिवट्ठ 1 नपु 1 मिच्छं 1 / सोलंतो"