________________ 53-55] षडशीतिनामा चतुर्थः कर्मग्रन्थः। 185 (गा० 4) इति गाथावयवेन नारकत्रिकादिषोडशप्रकृतीनां मिथ्यादृष्टावन्त उक्तस्ता मिथ्यात्वप्रत्ययाः भवन्तीत्यर्थः / तद्भावे बध्यन्ते तदभावे तूतरत्र साखादनादिषु न बध्यन्त इत्यन्वयव्यतिरेकाभ्यां मिथ्यात्वमेवासां प्रधानं कारणम् , शेषप्रत्ययत्रयं तु गौणमिति / तथा मिथ्यात्वाविरतिप्रत्ययिकाः पञ्चत्रिंशत् प्रकृतयः, तथाहि-"सासणि तिरि 3 थीण 3 दुहग 3 तिगं // अण 4 मज्झागिइ 4 संघयणचउ 4 नि 1 उज्जोय 1 कुखगइ 1 स्थि 1 ति।" (कर्मस्त० गा०४-५) इति सूत्रावयवेन तिर्यत्रिकप्रभृतिपञ्चविंशतिप्रकृतीनां सास्वादने बन्धव्यवच्छेद उक्तः, तथा—“वइर 1 नरतिय 3 बियकसाया 4 / उरलदुगंतो 2" (कर्मस्त० गा० 6) इति सूत्रावयवेन वज्रर्षभनाराचादीनां दशानां प्रकृतीनां देशविरते बन्धव्यवच्छेद उक्तः, एवं च पञ्चविंशतेर्दशानां च मीलने पञ्चत्रिंशत् प्रकृतयो मिथ्यात्वाविरतिप्रत्ययिका एताः, शेषप्रत्ययद्वयं तु गौणम् , तद्भावेऽप्युत्तरत्र तद्वन्धाभावादिति भावः / भणितशेषा आहारकद्विकतीर्थकरनामवर्जाः सर्वा अपि प्रकृतयो योगवर्जत्रिप्रत्ययिका भवन्ति, मिथ्यादृष्ट्यविरतेषु सकायेषु च सर्वेषु सूक्ष्मसम्परायावसानेषु यथासम्भवं बध्यन्त इति मिथ्यात्वाविरतिकषायलक्षणप्रत्ययत्रयनिबन्धना भवन्तीत्यर्थः / उपशान्तमोहादिषु केवलयोगवत्सु योगसद्भावेऽप्येतासां बन्धो नास्तीति योगप्रत्ययवजनम् , अन्वयव्यतिरेकसमधिगम्यत्वात् कार्यकारणभावस्येति हृदयम् / आहारकशरीराहारकाङ्गोपाअलक्षणाहारकद्विकतीर्थकरनाम्नोस्तु प्रत्ययः “सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं / " (बृहच्छत० गा० 45) इति वचनात् संयमः सम्यक्त्वं चाभिहित इतीह तद्वर्जनमिति // 53 // उक्तं प्रासङ्गिकम् / इदानीमुत्तरबन्धभेदान् गुणस्थानकेषु चिन्तयन्नाह पणपन्न पन्न तियछहिय चत्त गुणचत्त छचउदुगवीसा। . सोलस दस नव नव सत्त हेउणो न उ अजोगिम्मि // 54 // मिथ्यादृष्टौ पञ्चपञ्चाशद् बन्धहेतवः 1 / सासादने पञ्चाशद् बन्धहेतवः 2 / चत्तशब्दस्य प्रत्येकं सम्बन्धात् ब्यधिकचत्वारिंशदित्यर्थः, बन्धहेतवो मिश्रगुणस्थानके 3 / षडधिकचत्वारिंशद् बन्धहेतवोऽविरतिगुणस्थानके 4 / एकोनचत्वारिंशद् बन्धहेतवो देशविरतगुणस्थानके 5 / विंशतिशब्दस्य प्रत्येक सम्बन्धात् षड्डिंशतिबन्धहेतवः प्रमत्तगुणस्थाने 6 / चतुर्विशतिर्बन्धहेतवोऽप्रमत्तगुणस्थानके 7 / द्वाविंशतिबन्धहेतवोऽपूर्वकरणे 8 / षोडश बन्धहेतवोऽनिवृत्तिबादरे 9 / दश बन्धहेतवः सूक्ष्मसम्पराये 10 / नव बन्धहेतव उपशान्तमोहे 11 / नव बन्धहेतवः क्षीणमोहे 12 / सप्त बन्धहेतवः सयोगिकेवलिगुणस्थाने 13 / 'न तु' नैवायोगिन्येकोऽपि बन्धहेतुरस्ति, बन्धाभावादेवेति // 54 // अथामूनेव बन्धहेतून् भावयन्नाह पणपन्न मिच्छि हारगदुगूण सासाणि पन्न मिच्छ विणा। मिस्सदुगकम्मअण विणु तिचत्त मीसे अह छचत्ता // 55 // मिथ्यादृष्टौ आहारकाहारकमिश्रलक्षणद्विकोनाः पञ्चपञ्चाशद् बन्धहेतवो भवन्ति, आहारकद्विकवर्जनं तु “संयमवतां तदुदयो नान्यस्य" इति वचनात् / साखादने मिथ्यात्वपञ्चकेन विना पञ्चाशद् बन्धहेतवो भवन्ति, पूर्वोक्तायाः पञ्चपञ्चाशतो मिथ्यात्वपञ्चकेऽपनीते पञ्चाशद् बन्धहे 1 सम्यक्लगुणनिमित्तं तीर्थकर संयमेनाहारकम् // क. 24