________________ 50-52] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 183 अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु शुक्ललेश्या भवति न शेषाः पञ्च / 'अयोगिनः' अयोगिकेवलिनः 'अलेश्याः' अपगतलेश्याः। इह लेश्यानां प्रत्येकमसङ्घयेयानि लोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्ट्यादौ, कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि सम्भवो न विरुध्यत इति // तदेवमुक्ता गुणस्थानकेषु लेश्याः / सम्पति बन्धहेतवो वक्तुमवसरप्राप्ताः, ते च मूलभेदतश्चवार उत्तरभेदतश्च सप्तपञ्चाशत् , तानुभयथाऽपि प्रचिकटयिषुराह-"बंधस्स मिच्छ” इत्यादि, 'बन्धस्य ज्ञानावरणादिकर्मबन्धस्य मूलहेतवश्चत्वारः 'इति' अमुना प्रकारेण भवन्ति / केन प्रकारेण : इत्याह-'मिथ्यात्वाविरतिकषाययोगाः' तत्र मिथ्यात्वं-विपरीतावबोधखभावम् , अविरतिः-सावद्ययोगेभ्यो निवृत्त्यभावः, कषाययोगाः-प्रामिरूपितशब्दार्थाः / नन्वन्यत्र प्रमादोऽपि बन्धहेतुरभिधीयते, यदवादि मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः / (तत्त्वा० अ० 8 सू०१) इति स कथमिह नोक्तः ? उच्यते--मद्यविषयरूपस्य तस्याविरतावेवान्तर्भावो विवक्षितः / कषायाश्च पृथगेवोक्ताः, वैक्रियारम्भादिसम्भवी तु योगग्रहणेनैव गृहीत इत्यदोष इति // 50 // - उक्ताश्चत्वारो मूलहेतवः / इदानीमुत्रभेदान् प्रचिकटयिषुः प्रथमं मिथ्यात्वस्याविरतेश्चोतरभेदानाह अभिगहियमणभिगहियाऽऽभिनिवेसिय संसइयमणाभोगं / पण मिच्छ यार अविरइ, मणकरणानियम छजियवहो // 51 // अभिग्रहेण-इदमेव दर्शनं शोभनं नान्यद् इत्येवंरूपेण कुदर्शनविषयेण निर्वृत्तमाभिग्रहिकम् , यद्वशाद् बोटिकादिकुदर्शनानामन्यतमं गृह्णाति / तद्विपरीतमनाभिग्रहिकम्, यद्वशात् सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुपजायते / 'आभिनिवेशिकं' यद् अभिनिवेशेन निवृत्तम् , यथा गोष्ठामाहिलादीनाम् / 'सांशयिकं' यत् संशयेन निवृत्तम् , यद्वशाद् भगवदर्हदुपदिष्टेष्वपि जीवाजीवादितत्त्वेषु संशय उपजायते, यथा-नजाने किमिदं भगवदुक्तं धर्मास्तिकायादि सत्यम् ? उतान्यथा ? इति / 'अनामोग' यद् अनाभोगेन निर्वृत्तम्, तच्चैकेन्द्रियादीनामिति / "पण मिच्छ" ति पञ्चप्रकारं मिथ्यात्वं भवतीति / द्वादशप्रकाराऽविरतिः, कथम् ? इत्याह-मनःखान्तं, करणानि-इन्द्रियाणि पञ्च तेषां खखविषये प्रवर्तमानानामनियमः-अनियन्त्रणम् , तथा पण्णां-पृथिव्यवेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः-हिंसेति // 51 // अभिहिता मिथ्यात्वाविरत्युत्तरबन्धहेतवः / सम्प्रति कषाययोगोचरबन्धहेतूनाह नव सोल कसाया पनर जोग इय उत्तरा उ सगवन्ना। इगचउपणतिगुणेसुं, चउतिदुइगपञ्चओ बंधो॥५२॥ स्त्रीवेदपुरुषवेदनपुंसकवेदहास्यरत्यरतिशोकमयजुगुप्सारूपा नव नोकषायाः, ते च कषायसहचरितत्वाद् उपचारेणेह कषाया इत्युक्ताः / 'षोडश कषायाः' अनन्तानुबन्धिक्रोधादयः / नोकषाकमायलरूपं च सनिस्तरं खोपज्ञकर्मविपाकटीकायां निरूपितमिति तत. एवावधारणीयम् /