________________ 180 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा औदारिकमिश्रमपर्याप्तावस्थायाम् , कार्मणं त्वपान्तरालगंतौ। यद्वा उभे अपि केवलिसमुद्धातावस्थायाम् , ततस्ते अप्यत्र गुणस्थानकपञ्चके न सम्भवत इति / तथा त एव पूर्वोक्ता नव योगाः सवैक्रियाः सन्तो दश योगाः 'मिश्रे' सम्यग्मिथ्यादृष्टिगुणस्थानके भवन्ति / तथाहि-चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकवैक्रियलक्षणा दश योगा मिश्रे भवन्ति, न शेषाः / तद्यथा-आहा मरणासम्भवेनाऽपान्तरालगत्यसम्भवस्ततस्तस्याप्यसम्भवः / अत एवौदारिकवैक्रियमित्रे अपि न सम्भवतः, तयोरपर्याप्तावस्थाभावित्वात् / ननु मा भूद् देवनारकसम्बन्धि वैक्रियमिश्रम् , यत् पुनर्मनुष्यतिरश्वां सम्यग्मिथ्यादृशां वैक्रियलब्धिमतां वैक्रियकरणसम्भवेन तदारम्भकाले वैक्रियमिश्रं भवति तत् कस्माद नाभ्युपगम्यते ? उच्यते-तेषां वैक्रियकरणासम्भवादन्यतो वा यतः कुतश्चित् कारणात् पूर्वाचार्य भ्युपगम्यते तन्न सम्यगवगच्छामः, तथाविधसम्प्रदायाभावात् , एतच्च प्रागेवोक्तमिति / तथा त एव पूर्वोक्ता नव योगाः 'सवैक्रियद्विकाः' वैक्रियवैक्रियमिश्रसहिताः सन्त एकादश 'देशे' देशविरते भवन्ति, अम्बडस्येव वैक्रियलब्धिमतो देशविरतस्य वैक्रियारम्भसम्भवादिति // 46 // साहारदुग पमत्ते, ते विउवाहारमीस विणु इयरे। कम्मुरलदुगंताइममणवयण सजोगि न अजोगी // 47 // पूर्वोक्ता एवैकादश योगाश्चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकवैक्रियद्विकलक्षणाः 'साहारकद्विकाः' आहारकाहारकमिश्रसहिताः सन्तस्त्रयोदश योगाः प्रमचे भवन्ति / औदारिकमिश्रकामणकाययोगाभावस्तु पूर्वोक्तयुक्तेरेवावसेय इति / त एव पूर्वोक्तास्त्रयोदश योगा वैक्रियमिश्राहारकमिश्रं विना एकादश 'इतरसिन्' अप्रमत्तगुणस्थानके भवन्ति / तथाहि-चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकवैक्रियाहारकलक्षणा एकादश योगा अप्रमत्ते / यत्तु वैक्रियमिश्रमाहारकमिश्रं च तन्न सम्भवति, तद् वैक्रियस्याहारकस्य च प्रारम्भकाले भवति, तदानीं च लब्ध्युपजीवनादिनौत्सुक्यभावतः प्रमादभावः सम्भवतीति / तथौदारिकमिश्रमपर्याप्तावस्थायाम् , कार्मणं वपान्तरालगतौ / यद्वा उभे अपि केवलिसमुद्धातावस्थायाम् , ततस्ते अप्यत्र गुणस्थानके न सम्भवत इति / तथा कार्मणम् 'औदारिकद्विकम्' औदारिकौदारिकमिश्रलक्षणम् अन्त्यादिममनसी-सत्यासत्यामृषरूपौ मनोयोगौ अन्त्यादिमवचने-सत्यासत्यामृषलक्षणौ वाग्योगौ चेति सप्त योगाः सयोगिकेवलिनो भवन्ति, कार्मणौदारिकमिशे तु समुद्धातावस्थायामिति / 'न' नैवं पञ्चदशयोगमध्यादेकेनापि योगेन युक्तः 'अयोगी' अयोगिकेवली भवति, योगाभावनिबन्धनत्वादयोगित्वावस्थाया इति॥४७॥ उक्ता गुणस्थानकेषु योगाः / अधुनैतेष्वेवोपयोगानभिधातुकाम आह तिअनाण दुदंसाइमदुगे अजइ देसि नाणदंसतिगं। - ते मीसि मीस समणा, जयाइ केवलिदुगंतदुगे // 48 // 'आदिमद्विके' मिथ्यादृष्टिसाखादनलक्षणप्रथमद्वितीयगुणस्थानकद्वय इत्यर्थः / “तिअनाण दुदंस" ति त्रयाणामज्ञानानां समाहारख्यज्ञानं-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपं, दर्शनं दों १°कमिश्र क० ग०५०॥ 2 °भादिका क० ग घ ङ०॥