________________ 47-49] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 181 द्वयोर्दर्शयोः समाहारो द्विदर्श-चक्षुर्दर्शनाचक्षुर्दर्शनरूपमित्येते पञ्चोपयोगा मिथ्यादृष्टिसासादनयोर्भवन्ति, न शेषाः, सम्यक्त्वविरत्यभावात् / तथा 'अयते' अविरतसम्यग्दृष्टौ 'देशे' देशविरते षडुपयोगा भवन्ति / तथाहि-"नाणदंसतिगं" ति त्रिकशब्दस्य प्रत्येकमभिसम्बन्धाद् ज्ञानत्रिक-मतिज्ञानश्रुतज्ञानावधिज्ञानरूपं दर्शत्रिकं-चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनलक्षणमिति, न शेषाः, सर्वविरत्यभावात् / 'ते' पूर्वोक्ता ज्ञानत्रिकदर्शनविकरूपाः षडुपयोगाः 'मिश्रे' सम्यग्मिथ्यादृष्टिगुणस्थानके 'मिश्राः' अज्ञानसहिता द्रष्टव्याः, तस्योभयदृष्टिपातित्वात् ; केवलं कदाचित् सम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यम् , कदाचिच्च मिथ्यात्वबाहुल्यतोऽज्ञानबाहुल्यम्, समकक्षतायां तूभयांशसमतेति / अस्मिंश्च गुणस्थानके यद् अवधिदर्शनमुक्तं तत् सैद्धान्तिकमतापेक्षया द्रष्टव्यमित्युक्तं प्राक् / “समणा जयाइ" ति “यमूं उपरमे" यमनं यतं-सर्वसावधविरतं तद् विद्यते यस्य स यतः-"अभ्रादिभ्यः” (सि०७-२-४६) इत्यप्रत्ययः प्रमचगुणस्थानकवर्ती साधुः, यत आदिर्येषां गुणस्थानकानां तानि यतादीनि-प्रमत्ताप्रमत्तापूर्वकरणानिवृतिवादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहलक्षणानि सप्त गुणस्थानकानि तेषु पूर्वोक्ता ज्ञानत्रिकदर्शनत्रि'काख्याः षडुपयोगाः “समण" ति मनःपर्यायज्ञानसहिताः सप्त भवन्तीति, न शेषाः, मिथ्यात्वपातिकर्मक्षयाभावात् / 'केवलद्विकं' केवलज्ञानकेवलदर्शनलक्षणोपयोगद्वयरूपम् 'अन्तद्विके' सयोगिकेवल्ययोगिकेवलिलक्षणचरमगुणस्थानकद्वये भवति, न शेषा दश ज्ञानदर्शनलक्षणाः, तदुच्छेदेनैव केवलज्ञानकेवलदर्शनोत्पत्तेः, "नेट्टम्मि उ छाउमथिए नाणे" (आ० नि० गा० 539) इति वचनात् // 18 // तदेवमभिहिता गुणस्थानकेषूपयोगाः / साम्प्रतं यदिह प्रकरणे सूत्राभिमतमपि कार्मग्रन्थिकाभिप्रायानुसरणतो नाधिकृतं तद्दर्शयन्नाह.. सासणभावे नाणं, विउव्वगाहारगे उरलमिस्सं। नेगिदिसु सासाणो, नेहाहिगयं सुयमयं पि॥४९॥ 'सासादनमावे' साखादनसम्यग्दृष्टित्वे सति ज्ञानं भवति नाज्ञानमिति 'श्रुतमतमपि सिद्धान्तसम्मतमपि; तथाहि बैइंदिया णं भंते ! किं नाणी अन्नाणी ? गोयमा ! नाणी वि अन्नाणी वि। जे नाणी ते नियमा दुनाणी, आभिणिबोहियनाणी सुयनाणी / जे अन्नाणी ते वि नियमा दुअन्नाणी, तं जहा-मइअन्नाणी सुयअन्नाणी / (भ० श० 8 उ० 2 पत्र 343-2) .. इत्यादिसूत्रे द्वीन्द्रियादीनां ज्ञानित्वमभिहितं तच्च साखादनापेक्षयैव, न शेषसम्यक्त्वापेक्षया, असम्भवात् / उक्तं च प्रज्ञापनाटीकायाम् "बेइंदियस्स दो नाणा कहं लभंति ? भण्णइ-सासायणं पडुच्च तस्सापजत्तयस्स दो नाणा लब्भंति ( ) इति / १°त् कस्याचित् सम्य क०ग०१०॥ 2 नष्टे तु छानस्थिके ज्ञाने॥ 3 दीन्द्रिया भदन्त ! कि ज्ञानिनोऽज्ञानिनः ? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि / ये ज्ञानिनते नियमादिज्ञानिनः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनः / येऽज्ञानिनस्तेऽपि नियमाद्यज्ञानिनः, तद्यथा-मत्यज्ञानिनः श्रुताज्ञानिनः // ४द्वीन्द्रियस्य द्वे ज्ञाने कथं लभ्येते ? भण्यते-साखादनं प्रतीत्य तस्यापर्याप्तकस्य द्वे ज्ञाने लभ्यते॥