________________ 11-46] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 179 वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सवत्योवा जीवा अणाहारगा, आहारगा असंखिज्जगुणा / (प्रज्ञा० पद 3 पत्र 138-1) / ननु च सिद्धेभ्योऽनन्तगुणाः संसारिजीवाः ते च प्राय आहारकाः तत् कथमसझ्यातगुणा अनाहारकेभ्य आहारकाः! इति, नैष दोषः, यतः प्रतिसमयमेकैकस्य निगोदस्याऽसद्ध्येयभागप्रमाणाविग्रहगत्यापन्ना जीवा लभ्यन्ते, ते चानाहारकाः, तत आहारकजीवानामनाहारकजीवापेक्षयाऽसझ्यातगुणत्वमेवेति // 44 // चिन्तितं गत्यादिमार्गणास्थानेषु खस्थानापेक्षयाऽल्पबहुत्वम् / इदानीं गुणस्थानकेषु जीवस्थानानि चिन्तयन्नाह सव्वजियठाण मिच्छे, सग सासणि पण अपज सन्निदुर्ग। सम्मे सन्नी दुविहो, सेसेसुं सन्निपज्जत्तो॥४५॥ सर्वाणि जीवस्थानानि-चतुर्दशापि मिथ्यादृष्टिगुणस्थानके भवन्ति, मिथ्यात्वस्य सर्वेषु जीवस्थानकेषु सम्भवात् / तथा "सग" ति सप्त जीवस्थानानि सासादने भवन्ति / तद्यथा-'पञ्चापर्याप्ताः' बादरैकेन्द्रियोऽपर्याप्तः 1 द्वीन्द्रियोऽपर्याप्तः 2 त्रीन्द्रियोऽपर्याप्तः 3 चतुरिन्द्रियोऽपर्याप्तः 4 असंज्ञिपञ्चेन्द्रियोऽपर्याप्तः 5 'संज्ञिद्विकम्' संज्ञी अपर्याप्तः 6 पर्याप्तः 7 / अपर्याप्तकाश्चेह करणापर्याप्तका द्रष्टव्याः, न तु लब्ध्यपर्याप्तकाः, तेषु मध्ये साखादनसम्यक्त्वसहितस्योत्पादाभावात् / “सम्म सन्नी दुविहो" ति अविरतसम्यग्दृष्टिगुणस्थानके संज्ञी 'द्विविधः' अपर्याप्तपर्याप्तरूपो द्रष्टव्यः / इहापर्याप्तकः करणापेक्षया ज्ञेयो न तु लब्ध्यपेक्षया, लब्ध्यपर्याप्तमध्येऽविरतसम्यग्दृष्टेरभावात् / 'शेषेषु' मिश्रदेशविरत्यादिगुणस्थानके संज्ञी पर्याप्त इत्येकमेव जीवस्थानकम् , न शेषाणि, तेषां मिश्रभावदेशविरत्यादिप्रतिपत्त्यभावात् / न च पूर्वप्रतिपन्नमिश्रभावोऽ न्येषु जीवस्थानकेषु सामन् लभ्यते, "ने सम्ममिच्छो कुणइ कालं" इति वचनात् // 45 // तदेवं गुणस्थानकेषु व्याख्यातानि जीवस्थानकानि / सम्प्रति गुणस्थानकेष्वेव योगान् व्याख्यानयन्नाह मिच्छदुग अजइ जोगाहारदुगुणा अपुष्वपणगे उ। मणवइउरलं सविउव्व मीसि सविउव्वदुग देसे // 46 // मिथ्यादृष्टिद्विकं-मिथ्यादृष्टिसाखादनलक्षणं तत्र 'अयते' अविरतसम्यग्दृष्टौ चेत्येवं गुणस्थानकत्रये संज्ञी पञ्चेन्द्रियोऽपि लभ्यते, तस्य च यथोक्ता आहारकद्विकेन-आहारककाययोगाहारकमिश्रकाययोगलक्षणेन ऊनाः-रहितास्त्रयोदश योगाः सम्भवन्ति / यत् पुनराहारकद्विकं तत् चतुर्दशपूर्विण एव / यदभ्यधायि ___आहारदुर्ग जायइ चउदसपुविस्स (पञ्चसं० गा० 12) इति / न च मिथ्यादृष्टिसासादनायतानां चतुर्दशपूर्वाधिगमसम्भव इति / तथा 'अपूर्वपञ्चके' अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहलक्षणे नव योगा भवन्ति / तद्यथाचतुर्विधो मनोयोगः 4 चतुर्विधो वाम्योगः 4 औदारिककाययोगः 1 इति, न शेषाः, अत्यन्तविशुद्धतया तेषां वैक्रियाहारकद्विकारम्भासम्भवात् , तत्र स्थितानां च खभावत एव श्रेण्यारोहाभावात् / १न सम्यग्मिध्यादृष्टिः कालं करोति // 2 आहारकद्धिकं जायते चतुर्दशपूर्विणः॥