________________ 41-43] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 177 च केषाञ्चिदवधिदर्शनसम्भवात् / तेभ्यश्चक्षुर्दर्शनिनोऽसङ्ख्यातगुणाः चतुरिन्द्रियादीनामपि चक्षुदर्शनिनां तत्र प्रक्षेपात् / तेभ्योऽनन्तगुणाः केवलदर्शनिनः, सिद्धानां तेभ्योऽनन्तगुणत्वात् , तेषां च केवलदर्शनयुक्तत्वात् / तेभ्योऽप्यनन्तगुणा अचक्षुर्दर्शनिनः, सर्वसंसारिजीवानां सिद्धेभ्योऽनन्तगुणत्वात् , तेषां च नियमादचक्षुर्दर्शनोपेतत्वात् / यदाहुः परममुनयः- एएसि णं भंते ! जीवाणं चक्खुदंसणीणं अचखुदंसणीणं ओहिदसणीणं केवलदसणीण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा ओहिदसणी, चक्खुदंसणी असंखिजगुणा, केवलदसणी अणन्तगुणा, अचक्खुदसणी अणंतगुणा / (प्रज्ञा० पद 3. पत्र 137-2) इति / // 42 // ‘पच्छाणुपुव्वि लेसा, थोवा दो संख णंत दो अहिया। अभवियर थोव णंता, सासण थोवोवसम संखा // 43 // लेण्याद्वारे पश्चानुपूर्व्या लेश्या वाच्याः / तद्यथा-शुक्ललेश्या पद्मलेश्या तेजोलेश्या कापोतलेश्या नीललेश्या कृष्णलेश्या / तत्र स्तोकाः शुक्ललेश्यावन्तः, वैमानिकेष्वेव देवेषु लान्तकादिष्वनुत्तरसुरपर्यवसानेषु केषुचिदेव कर्मभूमिजेषु मनुष्यस्त्रीपुंसेषु तिर्यक्स्त्रीपुंसेषु च केषुचित् सङ्ख्यातवर्षायुष्केषु शुक्ललेश्यासम्भवात् / ततः सहयातगुणाः पद्मलेश्यावन्तः, सनत्कुमारमाहेन्द्रब्रह्मलोकदेवेषूक्तरूपेषु च मनुष्यतिर्यक्षु पद्मलेश्याभावात् , सनत्कुमारादिदेवानां च लान्तकादिदेवेभ्यः सङ्ख्येयगुणत्वात् / तेभ्योऽपि तेजोलेश्यावन्तः सद्ध्येयगुणाः, सौधर्मेशानादिदेवेषु केपुचिच तिर्यड्मनुष्येषु तेजोलेश्यासद्भावात् , तेषां च सकलपद्मलेश्यासहिततिर्यगादिप्राणिगणापेक्षया सङ्ख्येयगुणत्वात् / ततः कापोतलेश्यावन्तोऽनन्तगुणाः, अनन्तकायिकेष्वपि कापोतलेश्यासद्भावात् / ततोऽपि विशेषाधिका नीललेश्यावन्तः, नारकादीनां तल्लेश्यावतां तत्र प्रक्षेपात् / ततः कृष्णलेश्यावन्तो विशेषाधिकाः, भूयसां तल्लेश्यासद्भावात् / यदभ्यधायि परमगुरुणा ऐएसि णं भंते! जीवाणं सलेस्साणं किण्हलेस्साणं नीललेस्साणं काउलेस्साणं तेउलेस्साणं पम्हलेस्साणं सुक्कलेस्साणं अलेस्साण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सवत्थोवा जीवा सुक्कलेस्सा, पम्हलेस्सा संखिज्जगुणा, तेउलेस्सा संखिज्जगुणा, अलेस्सा अणंतगुणा, काउलेस्सा अणंतगुणा, नीललेस्सा विसेसाहिया, किण्हलेस्सा विसेसाहिया, सलेस्सा विसेसाहिया / (प्रज्ञा० पद 3 पत्र 135-1) भव्यद्वारे-अभव्याः स्तोकाः, तेषां वक्ष्यमाणखरूपजघन्ययुक्तानन्तकतुल्यत्वात् / तेभ्यो १एतेषां भदन्त ! जीवानां चक्षुर्दर्शनिनामचक्षुर्दर्शनिनामवधिदर्शनिनो केवलदर्शनिनां च कतरे कतरेभ्यः अल्पा पा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका जीवा अवधिदर्शनिनः, चक्षुर्दर्शनिनोऽसङ्खयेयगुणाः, केवलदर्शनिनोऽनन्तगुणाः, अचक्षुदर्शनिनोऽनन्तगुणाः॥ 2 एतेषां भदन्त ! जीवाना सलेश्यानां कृष्णलेश्यानां नीललेश्याना कापोतलेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्लेश्याना अलेश्यानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम! सर्वस्तोका जीवाः शुक्ललेश्याः, पद्मलेश्याः सङ्ख्येयगुणाः, तेजोलेश्याः सङ्ख्येयगुणाः, अश्या अनन्तगुणाः, कापोतलेश्या अनन्तगुणाः, नीललेश्या विशेषाधिकाः, कृष्णलेश्या विशेषाधिकाः, सलेश्या विशेषाधिकाः॥....... क०२३