________________ 176 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा जेत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणं, दो वि एयाइं अन्नुन्नमणुगया। (नन्दी पत्र 140-1) इति / / - तेभ्यश्च मतिज्ञानिश्रुतज्ञानिभ्यो विभङ्गज्ञानिनोऽसङ्ख्यातगुणाः, मिथ्यादृष्टिसुरादीनां विभङ्गज्ञानवतां तेभ्योऽसङ्ख्यातगुणत्वादिति // 40 // केवलिणो णंतगुणा, मइसुयअन्नाणि णंतगुण तुल्ला। . सुहमा थोवा परिहार संख अहखाय संखगुणा // 41 // तेभ्यश्च विभङ्गज्ञानिभ्यः केवलिनोऽनन्तगुणाः, सिद्धानां तेभ्योऽनन्तगुणत्वात् , तेषां च केवलज्ञानयुक्तत्वात् / तेभ्योऽपि च केवलज्ञानिभ्यो मत्यज्ञानिश्रुताज्ञानिनोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिकायिकानामनन्तगुणत्वात् , तेषां च मिथ्यादृष्टितया मत्यज्ञानश्रुताज्ञानयुक्तत्वात्। एते चोभयेऽपि मत्यज्ञानिश्रुताज्ञानिनः खस्थाने चिन्त्यमानास्तुल्याः, मत्यज्ञानश्रुताज्ञानयोः परस्परमविनाभावित्वात् / उक्तं च___ ऐएसि णं भंते ! जीवाणं आभिणिबोहियनाणीणं सुयनाणीणं ओहिनाणीणं मणपज्जवनाणीणं केवलनाणीणं मइअन्नाणीणं सुयअन्नाणीणं विभंगनाणीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सवत्थोवा जीवा मणपज्जवनाणी, ओहिनाणी असंखेजगुणा, आभिणिबोहियनाणी सुयनाणी दो वि तुल्ला विसेसाहिया, विभंगनाणी असंखिज्जगुणा, केवलनाणी अणंतगुणा, मइअन्नाणी सुयअन्नाणी य दो वि तुल्ला अणंतगुणा / (प्रज्ञा० पद 3 पत्र 137-1) __ संयमद्वारे-सर्वस्तोकाः सूक्ष्मसम्परायसंयमिनः, शतपृथक्त्वमात्रसम्भवात् / तेभ्यः परिहारविशुद्धिकाः सङ्ख्यातगुणाः, सहस्रपृथक्त्वसम्भवात् / तेभ्योऽपि यथाख्यातचारित्रिणः सङ्ख्यातगुणाः, कोटिपृथक्त्वेन प्राप्यमाणत्वादिति // 41 // छेय समईय संखा, देस असंखगुण गंतगुण अजया। थोच असंख दु णंता, ओहि नयण केवल अचक्खू // 42 // तेभ्यो यथाख्यातचारित्रिभ्यश्छेदोपस्थापनचारित्रिणः सङ्ख्येयगुणाः, कोटीशतपृथक्त्वेन लभ्यमानत्वात् / तेभ्योऽपि सामायिकसंयमिनः सङ्ख्येयगुणाः, कोटीसहसपृथक्त्वेन प्राप्यमाणत्वात् / तेभ्योऽपि देशविरता असङ्ख्यातगुणाः, असङ्ख्यातानां तिरश्चां देशविरतिसम्भवात् / तेभ्योऽनन्तगुणाः 'अयताः' संयमहीना आद्यगुणस्थानकचतुष्टयवर्तिन इत्यर्थः, मिथ्यादृशामनन्तानन्तत्वात् / दर्शनद्वारे यथाक्रममेवं पदघटना-स्तोका अवधिदर्शनिनः, सुरनारकाणां नरतिरश्चा 1 यत्र मतिज्ञानं तत्र श्रुतज्ञानम् , यत्र श्रुतज्ञानं तत्र मतिज्ञानम् , द्वे अपि एते अन्योन्यमनुगते // 1 एतेषां भदन्त ! जीवानां आमिनिबोधिकज्ञानिनां श्रुतज्ञानिनामवधिज्ञानिनां मनःपर्यवज्ञानिनां केवलज्ञानिनां मत्यज्ञानिनां श्रुताज्ञानिनां विभङ्गज्ञानिनां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम! सर्वस्तोका जीवा मनःपर्यवज्ञानिनः, अवधिज्ञानिनोऽसङ्ख्येयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनो द्वयेऽपि तुल्या विशेषाधिकाः, विभङ्गज्ञानिनोऽसङ्ख्येयगुणाः, केवलज्ञानिनोऽनन्तगुणाः, मत्यज्ञानिनः श्रुताज्ञानिनश्च द्वयेऽपि तुल्या अनन्तगुणाः //