________________ 152 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा लब्धिप्रत्ययं तिर्यड्मनुष्याणाम् / उक्तं च श्रीमदनुयोगद्वारलघुवृत्तौ विविहाँ विसिट्ठगा वा, किरियो तीए अजं भवं तमिह / नियमा विउव्वियं पुण, नारगदेवाण पयईए // (पत्र. 87) तदेव काययोगस्तन्मयो वा योगो वैक्रिययोगो वैकुर्विककाययोगो वा 1 / वैक्रियं मिश्रं यत्र कार्मणेन औदारिकेण वा स वैक्रियमिश्रः, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायां प्रथमसमयादनन्तरम् , बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यङ्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वा औदारिकेण मिश्रम्, ततो वैक्रियमिश्रश्वासौ कायश्च वैक्रियमिश्रकायस्तेन योगो वैक्रियमिश्रकाययोगः 2 / चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशाद् आह्वियते निर्वर्त्यत इत्याहारकम् , अथवाऽऽहियन्ते गृह्यन्ते तीर्थकरादिसमीपे सूक्ष्मा जीवादयः पदार्था अनेनेत्याहारकम् / “कृद्वहुलं" (बहुलम् सि० 5-1-2) इति कर्मणि करणे वा णकः / यदवादि कैजम्मि समुप्पन्ने, सुयकेवलिणा विसिट्ठलद्धीए / जं इत्थ आहरिजइ, भणंति आहारगं तं तु // (अनु. हा. टी. पत्र 87) पाणिदयरिद्धिसंदरिसणत्थमत्थोवगहणहेउं वा / संसयवुच्छेयत्थं, गमणं जिणपायमूलम्मि // - (अनु. चू. पत्र 61, अनु. हा. टी. पत्र 87) तदेव कायस्तेन योग आहारककाययोगः 3 / आहारकं मिश्रं यत्र औदारिकेणेति गम्यते स आहारकमिश्रः, सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं परित्यजत औदारिकमुपाददानस्य आहारकं प्रारभमाणस्य वा प्राप्यते, स एव कायस्तेन योग आहारकमिश्रकाययोगः 4 / तथा औदारिककाययोगः, इह प्रसिद्धसिद्धान्तसन्दोहविवरणप्रकरणप्रमाणग्रन्थग्रथनावाप्तसुधांशुधामधवलयशःप्रसरधवलितसकलवसुन्धरावलयप्रभुश्रीहरिभद्रसूरिदर्शिता व्युत्पत्तिर्लिख्यते__ तत्थ ताव उदारं उरालं उरलं ओरालं वा / तित्थगरगणधरसरीराइं पडुच्च उदारं वुच्चइ, न तओ उदारतरमन्नमत्थि त्ति काउं, उदारं नाम प्रधानम् / उरालं नाम विस्तरालं विशालमिति वा, जं भणियं होइ, कहं ? साइरेगजोयणसहस्समवट्ठियप्पमाणमोरालियं, अन्नमिद्दहमित्तं नत्थि, वेउवियं हुज्ज लक्खमहियं, अवट्ठियं पंचधणुसँयाइं अहे सत्तमाए, इत्थं पुण अवट्ठियपमाणं विविधा विशिय वा क्रिया तस्यां च यद् भवं तदिह / नियमाद् वैकुर्विकं पुनः नारकदेवानी प्रकृत्या // 2 °या विकिरिय तीए जं तमिह / अनुयोगद्वारलघुवृत्तौ // 3 कार्ये समुत्पन्ने श्रुतकेवलिना विशिष्टलन्ध्या / यदत्राहियते भणन्ति आहारकं तत् तु // प्राणिदयार्द्धसन्दर्शनार्थमर्थावग्रहणहेतुर्वा / संशयव्युच्छेदार्थ गमनं जिनपादमूले // 4 तत्र तावदुदारमुरालमुरलमोरालं वा / तीर्थकरगणधरशरीराणि प्रतीत्योदारमुच्यते, न तत उदारतरमन्यदस्तीति कृत्वा // 5 ओरालं ओरालियं अनुयोगद्वारचो // 6 काउं उदार। उदा. अनुयोगद्वारचूर्णी // 7 यद् भणितं भवति, कथं सातिरेकयोजनसहस्रमवस्थितप्रमाणमौदारिकम् , अन्यदेतावन्मानं नास्ति, वैक्रियं भवेद् लक्षाधिकम्, अवस्थितं पश्च धनुःशतानि अधः सप्तम्याम्, अत्र पुनः अवस्थितप्रमाणं सातिरेकं योजनसहस्रम् // 'सतं, इमं पु° अनुयोगद्वारचूर्णिलघुवृत्त्योः //