________________ 24] षडशीतिनामा चतुर्थः कर्मग्रन्थः। 153 अइरेगं जोयणसहस्सं वनस्पत्यादीनामिति / उरलं नाम खल्पप्रदेशोपचितत्वाद् बृहत्त्वाच्च भिण्डवत् / ओरालं नाम मांसास्थिस्वाय्वाद्यवयवबद्धत्वात् / (अनु. हा. टी. पत्र 87) श्रीपूज्या अप्याहुः तैत्थोदारमुरौलं, ओरालमहव महल्लगवेण / ओरालियं ति पढमं, पडुच्च तित्थेसरसरीरं // भण्णइ य तहोरालं, वित्थरवंतं वणस्सतिं पप्प / पयईइ नत्थि अन्नं, इद्दहमित्तं विसालं ति // उरलं थेवपएसोवचियं पि महल्लगं जहा भिंडं / * मंसट्ठिण्हारुबद्धं, ओरालं समयपरिभासा // (अनु. हा. टी. पत्र 87) __ सर्वत्र खार्थिक इकप्रत्ययः, उदारमेव उरालमेव उरलमेव ओरालमेव औदारिकम् , पृषोदरादित्वाद् इष्टरूपनिप्पत्तिः, औदारिकमेव चीयमानत्वात् कायः, तेन सहकारिकारणभूतेन तद्विषयो वा योग औदारिककाययोगः 5 / तथा औदारिक मिश्रं यत्र कार्मणेनेति गम्यते स औदारिकमिश्रः, उत्पत्तिदेशे हि पूर्वभवादनन्तरमागतो जीवः प्रथमसमये कार्मणेनैव केवलेनाऽऽहारयति, ततः परमौदारिकस्याऽप्यारब्धत्वाद् औदारिकेण कार्मणमिश्रेणा यावत् शरीरनिष्पतिः / यदाह सकलश्रुताम्भोनिधिपारदृश्वा विश्वानुग्रहकाम्यया निर्मितानेकशास्त्रसन्दर्भः श्रीभद्रबाहुखामी जोएण कम्मएणं, आहारेई अणंतरं जीवो। . तेण परं मीसेणं, जाव सरीरस्स निप्फत्ती // केवलिसमुद्धातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिक प्रतीतमेव, "मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु // " (प्रश० का० 276) इति वचनात् , औदारिकमिश्रश्वासौ कायश्च तेन योग औदारिकमिश्रकाययोगः 6 / तथा कर्मणो विकारः कार्मणम् , "विकारे" (सि०६-२-३०) अण्प्रत्ययः, यद्वा कर्मैव कार्मणम् , “प्रज्ञादिभ्योऽण्" (सि० 7-2-165) [ इत्या प्रत्ययः, कर्मपरमाणव एवारमप्रदेशैः सह क्षीरनीरवद् अन्योन्यानुगताः सन्तः कार्मणं शरीरम् / उक्तं च कम्मविगारो कम्मणमट्टविहविचित्तकम्मनिष्फन्न / सव्वेसि सरीराणं, कारणभूयं मुणेयव्वं // (अनु. हा. टी. पत्र 87) अत्र "सव्वेसिं" इति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं-बीजभूतं कार्मणशरीरम् , 1 ओरालियं अनुयोगद्वारचूर्णौ // 2 समग्रोऽप्येष पाठः अनुयोगद्वारचूर्णावपि पत्र 60-61 तमेऽस्ति // 3 तत्रोदारमुरालं ओरालमथवा महत्तया / औदारिकमिति प्रथम प्रतीत्य तीर्थेश्वरशरीरम् // भण्यते च तथोरालं विस्तारवद् वनस्पतिं प्राप्य / प्रकृत्या नास्त्यन्यद् एतावन्मानं विशालमिति // उरलं स्तोकप्रदेशोपचितमपि महद्यथा भिण्डम् / मांसास्थिस्नायुबद्धमोरालं समयपरिभाषा // ४रालं उरलं ओरालमहव विष्णेयं / इति अनुयोगद्वारलघुवृत्तौ पाठः॥ 5 योगेन कार्मणेनाहारयत्यनन्तरं जीवः / ततः पर मिश्रेण यावच्छरीरस्य निष्पत्तिः॥ 6 कर्मविकारः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम्। सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् // क०२०