________________ 24) षडशीतिनामा चतुर्थः कर्मग्रन्थः / 151 मनोयोगः 1 / तथा सत्यविपरीतोऽसत्यः, यथा नास्ति जीव एकान्तसद्भतो विश्वव्यापीत्यादि- . कुविकल्पचिन्तनपरः, असत्यश्चासौ मनोयोगश्च असत्यमनोयोगः 2 / तथा मिश्रः-सत्यासत्यमनोयोगः, यथा इह धवखदिरपलाशादिमिश्रेषु बहुप्वशोकवृक्षेषु अशोकवनमेवेदमिति यदा विकल्पयति तदा तत्राऽशोकवृक्षाणां सद्भावात् सत्यः, अन्येषामपि धवखदिरपलाशादीनां तत्र सद्भावाद् असत्य इति सत्यासत्यमनोयोग इति, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरयमसत्य एव यथाविकल्पितार्थायोगात् 3 / न विद्यते सत्यं यत्र सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृषः, असत्यश्वासावमृषश्च "क्तं नादिभिन्नैः” (सि० 3-1-105) इति कर्मधारयः, असत्यामृषश्चासौ मनोयोगश्च असत्यामृषमनोयोगः 4 / इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतानुसारेण यद् विकल्प्यते, यथाऽस्ति जीवः सदसद्रूप इत्यादि, तत् किल सत्यं परिभाषितम् आराधकत्वात् / यतु विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठासया सर्वज्ञमतोत्तीर्ण किञ्चिद् विकल्प्यते, यथा नास्ति जीव एकान्तनित्यो वेत्यादि, तद् असत्यमिति परिभाषितं विराधकत्वात् / यत् पुनवस्तुप्रतिष्ठासामन्तरेण खरूपमात्रप्रतिपादनपरं व्यवहारपतितं किञ्चिद् विकल्प्यते, यथा हे देवदत्त! घटमानय गां देहि मह्यमित्यादि, तद् एतत् खरूपमात्रप्रतिपादनं व्यावहारिकं विकल्पज्ञानम् / न यथोक्तलक्षणं सत्यं नापि मृषेत्यसत्यामृषमनोयोग इति व्याख्यातश्चतुर्धा मनोयोगः / “वई" ति वाग्योगोऽपि चतुर्धा द्रष्टव्यः, तथाहि-सत्यवाग्योगः 1 असत्यवाग्योगः 2 सत्यासत्यवाग्योगः 3 असत्यामृषवाग्योगः 4 / तत्र सतां हिता सत्या, सत्या चासौ वाक् च सत्यवाक्, तया सहकारिकारणभूतया योगो [सत्य]वाग्योगः, अथवा वचनगतं सत्यत्वं तत्कार्यत्वाद् योगेऽप्युपचर्यते, ततश्च सत्यश्चासौ वाग्योगश्च सत्यवाग्योगः, भावार्थः सत्यमनोयोगवद वाच्यः। असत्या सत्याद् विपरीता सा चासौ वाक् चाऽसत्यवाक् तया योगोऽसत्यवाग्योगः 2 / तथा सत्या चासावसत्या चेत्यादि पूर्ववत् कर्मधारयो बहुव्रीहिर्वा, सा चासौ वाक् च सत्यासत्यवाक् , तत्प्रत्ययो योगः सत्यासत्यवाग्योगः 3 / न विद्यते सत्यं यत्र सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृषः, असत्यश्वासावमृषश्चासत्यामृषः, स चासौ वाग्योगश्च असत्यामृषवाग्योगः, शेषं मनोयोगवत् सर्वे वाच्यम् 4 / अत्र तृतीयचतुर्थी मनोयोगौ वाग्योगौ च परिस्थूरव्यवहारनयमतेन द्रष्टव्यौ / निश्चयनयमतेन तु मनोज्ञानं वचनं वा सर्वमदुष्टविवक्षापूर्वकं सत्यम् , अज्ञानादिदूषिताशयपूर्वकं त्वसत्यम् , उभयानुभयरूपं तु नास्त्येव सत्यासत्यराशिद्वयेऽन्तर्भावादिति भावनीयम् / तथा काययोगः सप्तधा–वैक्रियकाययोग आहारककाययोगः “उरल" ति औदारिककाययोगः “मीस" त्ति मिश्रशब्दस्य पूर्वदर्शितशरीरत्रिकेण सह. सम्बन्धाद् वैक्रियमिश्रकाययोग आहारकमिश्रकाययोग औदारिकमिश्रकाययोगः “कम्मण" ति कार्मणकाययोग इत्यक्षरार्थः / भावार्थस्त्वयम्-विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम् / तथाहितदेकं भूत्वाऽनेकं भवति, अनेकं भूत्वैकम् , अणु भूत्वा महद् भवति, महद् भूत्वाऽणु, तथा खचरं भूत्वा भूमिचरं भवति, भूमिचरं भूत्वा खचरम् , अदृश्यं भूत्वा दृश्यं भवति, दृश्यं भूत्वाऽदृश्यमित्यादि / यद्वा विशिष्टं कुर्वन्ति तदिति वैकुर्विकम् , पृषोदरादित्वाद् अभीष्टरूपसिद्धिः / तच्च द्विधा-औपपातिकं लब्धिप्रत्ययं च / तत्रौपपातिकमुपपातजन्मनिमित्तम् , तञ्च देवनारकाणाम्,