________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा नानि भवन्ति / 'चः' समुच्चये / कृष्णनीलकापोतलेश्यानां हि प्रत्येकमसङ्घयेयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दसंक्लेशेषु तदध्यवसायस्थानेषु तथाविधसम्यक्त्वदेशविरतिसर्वविरतीनामपि सद्भावो न विरुध्यते / उक्तं च सम्यक्त्वदेशविरतिसर्वविरतीनां प्रतिपत्तिकाले शुभलेश्यात्रयमेव भवति / उत्तरकालं तु सर्वा अपि लेक्ष्याः परावर्तन्तेऽपि इति / श्रीमदाराध्यपादा अप्याहुः सम्मत्सुयं सव्वासु लहइ सुद्धासु तीसु य चरित्र / पुवपडिवन्नओ पुण, अन्नयरीए उ लेसाए // (आव० नि० गा० 822) श्रीभगवत्यामप्युक्तम् सौमाइयसंजए णं भंते ! कइलेसासु हुज्जा ? गोयमा ! छसु लेसासु होज्जा, एवं छेओवट्ठावणियसंजए वि (श० 25 उ०७ पत्र 913-1) इत्यादि। तथा 'द्वयोः तेजोलेश्यापद्मलेश्ययोः सप्त गुणस्थानानि भवन्ति, तत्र षट् पूर्वोक्तान्येव सप्तमं त्वप्रमगुणसानकम् , अप्रमत्तसंयताध्यवसायस्थानापेक्षया मिथ्यादृष्ट्यादीनां प्रमचान्तानां तेजोलेश्यापद्मलेश्ये तारतम्येन जघन्यात्यन्ताविशुद्धिके द्रष्टव्ये / तथा अनाहारके पञ्च गुणस्थानानि भवन्ति / कानिः इत्याह-'प्रथमान्तिमद्विकाऽयतानि' इति द्विकशब्दस्य प्रत्येकं योगात् प्रथमद्विकं-मिथ्यादृष्टिसासादनलक्षणम् अन्तिमद्विकं-सयोगिकेवल्ययोगिकेवलिलक्षणम् 'अयतः' इति अविरतसम्यग्दृष्टिश्चेति / तत्र मिथ्यात्वसाखादनाविरतसम्यग्दृष्टिलक्षणं गुणस्थानकत्रयमनाहारके विग्रहगतौ प्राप्यते, सयोगिकेवलिगुणस्थानकं त्वनाहारके समुद्धातावस्थायां तृतीयचतुर्थपञ्चमसमयेषु द्रष्टव्यम् / यदवादि-"चतुर्थतृतीयपञ्चमेष्वनाहारकः" इति / अयोगिकेवल्यवस्थायां तु योगरहितत्वेनौदारिकादिशरीरपोषकपुद्गलग्रहणाभावाद् अनाहारकत्वम् , “औदारिकवैक्रियाहारकशरीरपोषकपुद्गलोपादानमाहारः" इति प्रवचनोपनिषद्वेदिनः / एवं मार्गणास्थानेषु गत्यादिषु "गुण" चि गुणस्थानकान्यभिहितानि // 23 // अधुना मार्गणास्थानेष्वेव योगानभिधित्सुः प्रथमं तावद्योगानेव खरूपत आह सचेयर मीस असचमोस मण वह विउवियाहारा। उरलं मीसा कम्मण, इय जोगा कम्ममणहारे // 24 // इह योगशब्देन कारणे कार्योपचारात् तत्चत्सहकारिभूतं मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाधिकरण्यम् / तत्र मनोयोगश्चतुर्धा, तद्यथा-सत्यमनोयोगः 1 अंसत्यमनोगः 2 सत्यासत्यमनोयोगः 3 असत्यामृषमनोयोगः 4 / तत्र सन्तो मुनयः पदार्था वा, तेषु यथासमं मुक्तिपापकत्वेन यथावस्थिततत्त्वचिन्तनेन च हितः सत्यः, यथाऽस्ति जीवः सदसदूपः कायप्रमाण इत्यादिरूपतया यथावस्थितवस्तुविकल्पनपर इत्यर्थः, सत्यश्चासौ मनोयोगश्च सत्य 1 सम्यक्त्वश्रुतं सर्वासु लभते शुद्धासु तिसषु च चारित्रम् / पूर्वप्रतिपनः पुनरन्यतरस्यां तु लेश्यायाम् // १सामायिकसंयतो भदन्त। कतिषु लेश्यासु भवेत् ? गौतम! षट्सु लेश्यासु भवेत्, एवं छेदोपस्थापनीयसंयतोऽपि