________________ 21-23] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 149 वि / जेइ नाणी तो अत्थेगइया तिनाणी अत्थेगइया चउनाणी / जे तिनाणी ते आभिणिबोहियनाणी सुअनाणी ओहिनाणी / जे चउनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी / जे अन्नाणी ते नियमो मइअन्नाणी सुयअन्नाणी विभंगनाणी / (श०८ उ० 2 पत्र 355-1) इति / / - अत्र हि येऽज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं साक्षादत्र सूत्रे प्रतिपादितम् / स एव विभङ्गज्ञानी यदा सासादनभावे मिश्रभावे वा वर्तते तत्रापि तदानीमवघिदर्शनं प्राप्यत इति / यत् पुनः सयोग्ययोगिकेवलिगुणस्थानकद्विकं तत्र मतिज्ञानादि न सम्भवत्येव, तघ्यवच्छेदेनैव केवलज्ञानस्य प्रादुर्भावात् "नैम्मि उ छाउमथिए नाणे" (आव० नि० गा० 539) इति वचनप्रामाण्यादिति // 21 // अड उवसमि चउ वेयगि, खइगे इक्कार मिच्छतिगि देसे / सुहुमे य सठाणं तेर जोग आहार सुकाए // 22 // काकाक्षिगोलकन्यायाद् इह "अयादीनि" [इति] पदं सर्वत्र योज्यते। ततोऽयतादीन्युपशान्तमोहान्तान्यष्टौ गुणस्थानान्यौपशमिकसम्यक्त्वे भवन्ति / अयतादीन्यप्रमत्तान्तानि चत्वारि 'वेदके' क्षायोपशमिकापरपर्याये गुणस्थानकानि भवन्ति / क्षायिकसम्यक्त्वे अयतादीन्ययोगिकेवलिपर्यवसानान्येकादश गुणस्थानकानि भवन्ति / तथा 'मिथ्यात्वत्रिके' मिथ्यादृष्टिसासादनमिश्रलक्षणे 'देशे' देशविरते 'सूक्ष्मे' सूक्ष्मसम्पराये 'चः' समुच्चये 'स्वस्थानं' निजस्थानम् / इदमुक्तं भवति-मिथ्यात्वमार्गणास्थाने मिथ्यादृष्टिगुणस्थानम् , सासादनमार्गणास्थाने सासादनं गुणस्थानम् , मिश्रे मार्गणास्थाने मिश्रं गुणस्थानम् , देशसंयममार्गणास्थाने देशविरतं गुणस्थानम् , सूक्ष्मसम्परायसंयममार्गणास्थाने सूक्ष्मसम्परायगुणस्थानम् / तथा 'योगे' मनोवाकायलक्षणे अयोगिकेवलिवर्जितानि शेषाणि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु यथायोगं योगत्रयस्यापि सम्भवात् / तथा आहारकेषु आद्यानि त्रयोदश गुणस्थानानि भवन्ति, सर्वेष्वप्येतेषु ओजोलोमप्रक्षेपाहाराणामन्यतमस्याहारस्य यथायोगं सम्भवात् / तथा "सुक्काए" ति शुक्ललेश्यायां प्रथमानि त्रयोदश गुणस्थानानि भवन्ति, न त्वयोगिकेवलिगुणस्थानम् , तस्य लेश्यातीतत्वादिति // 22 // ___अस्सन्निसु पढमदुर्ग, पढमतिलेसासु छच्च दुसु सत्त। पढमंतिमदुगअजया, अणहारे मग्गणासु गुणा // 23 // 'असंज्ञिषु' संज्ञिव्यतिरिक्तेषु प्रथमं मिथ्यादृष्टिसासादनलक्षणं गुणस्थानकद्वयं भवति / तत्र (ग्रन्थानम्-१०००) मिथ्यात्वमविशेषेण सर्वत्र द्रष्टव्यम् , सासादनं तु लब्धिपर्याप्तकानां करणापर्याप्तावस्थायामिति / प्रथमासु तिसूषु लेश्यासु मिथ्यादृष्ट्यादीनि प्रमत्तान्तानि षड् गुणस्थाशानिनोऽज्ञानिनः? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि / यदि ज्ञानिनः ततोऽस्त्येककाः त्रिज्ञानिनोऽस्त्यैककाथतु निनः / ये विज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः / ये चतुर्जानिनखे आमिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यायज्ञानिनः / ये अज्ञानिनस्ते नियमाद् मत्यज्ञानिनः श्रुताशानिनो विभाज्ञानिनः॥ 1 जे नाणी ते अ° भगवत्याम् // 2 मा तिअन्नाणी, तं जहा-मइ. भगवत्याम्॥ 3 नष्टे तु छानस्थिके शाने // ४°तादीति प°क०॥