________________ . 142 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा पुरुषस्य सम्यक्त्वमुद्वमतस्तद्रसाखादो भवतीति इदं साखादनमुच्यत इति / तथा “सन्नि" चि विशिष्टस्मरणादिरूपमनोविज्ञानभाक् संज्ञी, इतरोऽसंज्ञी सर्वोऽप्येकेन्द्रियादिः // 13 // आहारेयर भेया, सुरनरयविभंगमइसुओहिदुगे। सम्मत्ततिगे पम्हासुकासन्नीसु सन्निदुर्ग // 14 // ओजोलोमप्रक्षेपाहाराणामन्यतममाहारमाहारयतीत्याहारकः / 'इतरः' अनाहारको विग्रहगत्यादिगतः / “भेय" त्ति चतुर्दशमौलमार्गणास्थानानामिमेऽवान्तराश्चतुरादिसङ्ख्या भेदा भवन्तीति शेषः, सर्वेऽपि द्विषष्टिभेदाः / तथाहि-गतिश्चतुर्धा, इन्द्रियं पञ्चधा, कायः षोढा, योगस्त्रिधा, वेदस्त्रिधा, कषायश्चतुर्धा, ज्ञानपञ्चकम् अज्ञानत्रिकमिति ज्ञानमार्गणास्थानमष्टधा, संयमपञ्चकंशसंयमासंयमसहितं सप्तधा, दर्शनं चतुर्धा, लेश्या षोढा, भव्योऽभव्यश्चेति भव्यमार्गणास्थानं द्विधा, सम्यक्त्वत्रयमिथ्यात्वमिश्रसासादनभेदात् सम्यक्त्वमार्गणास्थानं षोढा, संज्ञिमार्गणास्थानं सप्रतिपक्ष द्वेधा, आहारकमार्गणास्थानं सप्रतिपक्षं द्वधा / सर्वेऽप्येत एकत्र मील्यन्ते तत उत्तरभेदा द्वापष्टिरिति / अत्र गाथा चउ पण छ तिय तिय चउ, अड सग चउ छच्च दु छग दो दुन्नि / . गइयाइमग्गणाणं, इय उत्तरभेय बासट्टी // __इत्येवमुक्ता गत्यादिमार्गणास्थानानामवान्तरभेदाः / साम्प्रतमेतेष्वेव जीवस्थानानि चिन्तयनाह--"सुरनरयविभंग" इत्यादि। सुरगतौ नरकगतौ च 'संज्ञिद्विकं' पर्याप्तापर्याप्तलक्षणं भवति / अपर्याप्तश्चेह करणापर्याप्तो गृह्यते, न लब्ध्यपर्याप्तः, तस्य देवनरकगत्योरुत्पादाभावात् / तथा 'विभङ्गे' विभङ्गज्ञाने 'मतौ' मतिज्ञाने 'श्रुते' श्रुतज्ञाने "ओहिदुगि" ति अवधिद्विके-अवधिज्ञानावधिदर्शनलक्षणे 'सम्यक्त्वत्रिके' क्षायोपशमिकक्षायिकौपशमिकलक्षणे पद्मलेश्यायां शुक्ललेश्यायां संज्ञिनि च संज्ञिद्विकमपर्याप्तपर्याप्तलक्षणं भवति, न शेषाणि जीवस्थानानानि, तेषु मिथ्यात्वादिकारणतो मतिज्ञानादीनामसम्भवात् / अत एव च हेतोरिहापर्याप्तकः करणापर्याप्तको गृह्यते, न लब्ध्यपर्याप्तः, तस्य मिथ्यादृष्टित्वाद् अशुभलेश्याकत्वाद् असंज्ञिकत्वाचेति / आहक्षायिकक्षायोपशमिकौपशमिकेषु कथं संज्ञी अपर्याप्तको लभ्यते ? उच्यते-इह यः कश्चित् पूर्वबद्धायुष्कः क्षपकश्रेणिमारभ्यानन्तानुबन्ध्यादिसप्तकक्षयं कृत्वा क्षायिकसम्यक्त्वमुत्पाद्य यदा गतिचतुष्टयस्यान्यतरस्यां गतावुत्पद्यते तदा सोऽपर्याप्तः क्षायिकसम्यक्त्वे प्राप्यते, क्षायोपशमिकसम्यक्त्वयुक्तश्च देवादिभवेभ्योऽनन्तरमिहोत्पद्यमानस्तीर्थकरादिरपर्याप्तकः सुप्रतीत एव / औपशमिकं सम्यक्त्वं पुनरपर्याप्तावस्थायामनुत्तरसुरस्य द्रष्टव्यम् / / ___ इहौपशमिकसम्यक्त्वमपर्याप्तस्य केचिद् नेच्छन्ति, तथा च ते पाहुः-न तावदस्यामेवापर्याघावस्थायामिदं सम्यक्त्वमुपजायते, तदानीं तस्य तथाविधविशुद्ध्यभावात् ; अर्थततदानीं मोत्पादि, यत्तु पारभविकं तद् भवतु, केन विनिवार्यत इति मन्येथास्तदपि न युक्तियुक्तमुत्पश्यामः, यतो यो मिथ्यादृष्टिस्तत्प्रथमतया सम्यक्त्वमौपशमिकमवाप्नोति स तावत्तद्भावमापन्नः सन् कालं न करोत्येव / यदुक्तमागमे१ चत्वारः पञ्चषद् त्रयस्मयश्चलारोऽष्ट सम्म चत्वारः षट्स द्वौ षड् द्वौ द्वौ। गत्यादिमार्गणानामित्युत्तरमेदा द्वाषष्टिः॥