________________ 14-15] षडशीतिनामा चतुर्थः कर्मग्रन्थः। 143 अणबंधोदयमाउगबंधं कालं च सासणो कुणई / उवसमसम्मपिट्ठी, चउण्हमिकं पि नो कुणई // उपशमश्रेणेम॒त्वाऽनुपरसुरेषत्पन्नस्याऽपर्याप्तकस्यैतल्लभ्यते इति चेद् नन्वेतदपि न बहु मन्यामहे, तस्य प्रथमसमय एव सम्यक्त्वपुद्गलोदयात् क्षायोपशमिकं सम्यक्त्वं भवति न त्वौपशमिकम् / उक्तं च शतकबृहचूर्णी 'जो उवसमसम्मविट्ठी उवसमसेढीए कालं करेइ सो पढमसमए चेव सम्मतपुंजं उदयावलियाए छोरण सम्मत्तपुग्गले वेएइ, तेण न उवसमसम्मदिट्टी अपज्जत्तगो लब्भइ इत्यादि / तस्मात् पर्याप्तसंज्ञिलक्षणमेकमेव जीवस्थानकमत्र प्राप्यत इति स्थितम् / ___ अपरे पुनराहुः-भवत्येवापर्याप्तावस्थायामप्यौपशमिकं सम्यक्त्वम् , सप्ततिचूादिषु तथामिधानात् / सप्ततिचूर्णौ हि गुणस्थानकेषु नामकर्मणो बन्धोदयादिमार्गणावसरेऽविरतसम्यग्दृष्टेरुदयस्थानचिन्तायां पञ्चविंशत्युदयः सप्तविंशत्युदयश्च देवनारकानधिकृत्योक्तः, तत्र नारकाः क्षायिकवेदकसम्यग्दृष्टयः, देवास्तु त्रिविधसम्यग्दृष्टयोऽपि / तथा च तद्वन्थः पैणवीससत्तावीसोदया देवनेरइए पडुच्च, नेरइगो खैयगवेयगसम्मदिट्ठी देवो तिविहसम्मट्ठिी वि॥ - पञ्चविंशत्युदयश्च शरीरपर्याप्तिं निवर्तयतः / तथाहि-निर्माणस्थिरास्थिरागुरुलघुशुभाशुभतैजसकार्मणवर्णगन्धरसस्पर्शचतुष्कदेवगतिदेवानुपूर्वीपञ्चेन्द्रियजातित्रसबादरपर्याप्तकं सुभगदुर्भगयोरेकतरम् आदेयानादेययोरेकतरं यशःकीर्त्ययशःकीोरेकतरमित्येकविंशतिः, ततः शरीरपर्याप्त्या पर्याप्तस्यै वैक्रियद्विकोपघातप्रत्येकसमचतुरस्रलक्षणप्रकृतिपञ्चकक्षेपे देवानुपूर्व्यपनयने च पञ्चविंशतिर्भवति / ततः शरीरपर्याप्त्या पर्याप्तस्य शेषपर्याप्तिभिः पुनरपर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे सप्तविंशतिर्भवति / ततोऽपर्याप्तावस्थायामपीह देवस्यौपशमिकं सम्यक्त्वमुक्तम् / तथा पञ्चसङ्घहेऽपि मार्गणास्थानकेषु जीवस्थानकचिन्तायामौपशमिकसम्यक्त्वे "उँवसमसम्मम्मि दो सन्नी" इत्यनेन ग्रन्थेन संज्ञिद्विकमुक्तम् / ततः सप्ततिचूर्ण्यभिप्रायेण पञ्चसङ्ग्रहाभिप्रायेण चास्माभिरपि औपशमिकसम्यक्त्वे संज्ञिद्विकमुक्तम्, तत्त्वं तु केवलिनो विशिष्टबहुश्रुता वा विदन्तीति // 14 // तमसन्निअपजजयं, नरे सथायरअपज तेऊए / थावर इगिदि पढमा, चउ बार असन्नि दुदु विगले // 15 // _ 'तत्' पूर्वोक्त संज्ञिद्विकमपर्याप्तासंज्ञियुतं 'नरे' नरेषु लभ्यते, जातावेकवचनम् / अयमर्थः.१ अनन्तानुबन्धिबन्धोदयं आयुर्बन्धं कालं च सासादनः करोति / औपशमिकसम्यग्दृष्टिश्चतुर्णामेकमपि न करोति ॥२य उपशमसम्यग्दृष्टिरुपशमश्रेणौ कालं करोति स प्रथमसमय एव सम्यक्त्वपूर्ण उदयावलिका क्षिप्त्वा सम्यक्त्वपुद्गलान् वेदयति तेन नोपशमसम्यग्दृष्टिरपर्याप्तको लभ्यते // 3 पञ्चविंशतिसप्तविंशत्युदयौ देवनैरयिकान् प्रतीत्य, नैरयिकः क्षायिकवेदकसम्यग्दृष्टिदेवनिविधसम्यग्दृष्टिरपि // 4 खइगक० ख० ग०० रु०॥ 5 इत ऊई-"शेषपर्याप्तिभिरपर्याप्तस्य" इत्येष पाठो जैनधर्मप्रसारकसंसत्प्रकाशिवे पुस्तकेऽधिको दृश्यते, परमसत्पार्श्ववर्तिषु पञ्चखपि पुस्तकादर्शेषु नास्ति अतो मूले नाहत इति // 6 उपशमसम्यक्त्वे द्वौ संज्ञिनौ //