________________ 13]. षडशीतिनामा चतुर्थः कर्मग्रन्थः / 141 "संजोयणाइयाणं, नणूदओ संजयस्स पडिसिद्धो। सच्चमिह सोऽणुभाग, पडुच्च न पएसकम्मं तु // भणियं च सुए जीवो, वेएइ न वाऽणुभागकम्मं तु / जं पुण पएसकम्मं, नियमा वेएइ तं सव्वं // नाणुदियं निज्जरए, नासंतमुदेइ जं तओऽवसं / सव्वं पएसकम्मं, वेएउं मुच्चए सव्वो // किह दंसणाइघाओ, न होइ संजोयणाइवेयणओ / मंदाणुभावयाए, जहाऽणुभावम्मि वि कहिंचि // - निच्चमुइन्नं पि जहा, सयलचउन्नाणिणो तदावरणं / न वि घाइ मंदयाए, पएसकम्मं तहा नेयं // (विशेषा० गा० 1294-98) . "मिच्छ" ति मिथ्यात्वम्-अदेवदेवबुद्ध्यगुरुगुरुबुद्ध्यतत्त्वतत्त्वबुद्धिलक्षणम् / “मीस" ति इहानन्तराभिहितविधिना लब्धेनौपशमिकसम्यक्त्वेन प्रन्थिसम्भवेन औषधविशेषकल्पेन मदनकोद्रवस्थानीय मिथ्यात्वमोहनीयं कर्म विशोधयित्वा त्रिधा करोति / तथाहि-शुद्धमर्धविशुद्धमविशुद्धं चेति / स्थापना AAA तत्र त्रयाणां पुञ्जानां मध्ये योऽसावर्धविशुद्धः पुञ्जः स मिश्र उच्यते, सम्यग्मिथ्यात्वमित्यर्थः / एतदुदयात् किल प्राणी जिनप्रणीतं तत्त्वं न सम्यक् श्रद्दधाति नापि निन्दति / उक्तं च बृहच्छतकबृहचूर्णी जहा नालिकेरदीववासिस्स अइछुहियस्स वि पुरिसस्स इत्थ ओयणाइए अणेगहा वि ढोइए तस्स आहारस्स उवरिं न रुई न य निंदा, जेण कारणेणं सो ओयणाइओ आहारो न कयाइ दिट्ठो नावि सुओ, एवं सम्मामिच्छद्दिहिस्स वि जीवाइपयत्थाण उवरिं न रुई न य निंदा इत्यादि / तथा “सासाण" त्ति सासादनं तत्र आयम्-औपशमिकसम्यक्त्वलक्षणं सादयति-अपनयति आसादनम्-अनन्तानुबन्धिकषायवेदनम् , अत्र पृषोदरादित्वाद् यशब्दलोपः, "रम्यादिभ्यः" (5-3-126) कर्तर्यनत्प्रत्ययः, सति यस्मिन् परमानन्दरूपानन्तसुखदो निःश्रेयसतरुबीजभूतो अन्थिभेदसम्भवौपशमिकसम्यक्त्वलाभो जघन्यतः समयमात्रेण उत्कर्षतः षड्भिरावलिकाभिरपगच्छतीति, ततः सह आसादनेन वर्तत इति सासादनम् / यद्वा साखादनं तत्र सम्यक्त्वलक्षणरसाखादनेन वर्तत इति सास्वादनम् , यथा हि भुक्तक्षीरानविषयव्यलीकचित्तपुरुषस्तद्वमनकाले क्षीरान्नरसमाखादयति तथाऽत्रापि गुणस्थाने मिथ्यात्वाभिमुखतया सम्यक्त्वस्योपरि व्यलीकचित्तस्य १संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः / सत्यमिह सोऽनुभागं प्रतीत्य न प्रदेशकर्म तु // भणितं च श्रुते जीवो वेदयति न वा अनुभागकर्म तु / यत् पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् // नानुदितं निर्जीर्यते नासदुदेति यत्ततोऽवश्यम् / सर्व प्रदेशकर्म वेदयिखा मुच्यते सर्वः // कथं दर्शनादिघातो न भवति संयोजनादिवेदनतः / मन्दानुभावतया यथा अनुभावेऽपि कस्मिंश्चिद् // नित्यमुदीर्णमपि यथा सकलचतुर्ता निनस्तदावरणम् / नापि घातयति मन्दलात् प्रदेशकर्म तथा झेयम् // 2 यथा नालिकेरदीपवासिनः अतिक्षुधितस्यापि पुरुषस्यात्रौदनादिके अनेकधाऽपि ढौकिते तस्याहारस्योपरि न रुचिर्न च निन्दा, येन कारणेन स ओदनादिक आहारो न कदाचिद् दृष्टो नापि श्रुतः, एवं सम्यग्मिध्याहशोऽपि जीवादिपदार्यामामुपरिन रुचिर्न च निन्दा॥