________________ 140 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा "गंठिं समइच्छओ" चि ग्रन्थि समतिकामतः-भिन्दानस्येति, "सम्मतपुरक्खडे" ति सम्यक्त्वं पुरस्कृतं येन तस्मिन् , आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवतीत्यर्थः / एतस्मिंश्चान्तरकरणे कृते सति तस्य मिथ्यात्वकर्मणः स्थितिद्वयं भवति / अन्तरकरणादधस्तनी प्रथमा स्थितिरन्तर्मुइर्तप्रमाणा, तस्मादेवान्तरकरणादुपरितनी शेषा द्वितीया स्थितिः / स्थापना तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव / अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमय एव औपशमिकसम्यक्त्वमवामोति, मिथ्यात्वदलिकवेदनाभावात् / यथा हि वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनवनदावोऽप्यन्तरकरणमवाप्य विध्यायति, तथा च सति तस्यौपशमिकसम्यक्त्वलाभः / यदाहुः श्रीपूज्यपादाः ऊसरदेसं दड्डिलयं च विज्झाइ वणदवो पप्प / इय मिच्छस्स अणुदए, उवसमसम्म लहइ जीवो॥ (विशेषा० गा० 2734) इति / . व्यावर्णितं अन्थिभेदसम्भवमौपशमिकसम्यक्त्वम् / अथोपशमश्रेणिसम्भवमौपशमिकसम्यक्त्वं त्रिभुवनजनप्रथितप्रवचनोपनिषद्वेदिश्रीजिनभद्रगणिक्षमाश्रमणप्रणीतगाथाभिरेवः भाव्यते उवसामगसेढीए, पट्ठवओ अप्पमत्तविरओ ति / पज्जवसाणे सो वा, होइ पमत्तो अविरओ वा // . अन्ने भणंति अविरय-देस-पमत्ता-ऽपमतविरयाणं / अन्नयरो पडिवज्जइ, ईसणसमयम्मि उ नियट्टी // (विशेषा० गा० 1285-1286) संजलणाईण समो, जुत्तो संजोयणादओ जे उ / ते पुचि चिय समिया, नणु सम्मत्वाइलाभम्मि // (विशेषा० गा० 1290) आचार्याः आसि खओवसमो सिं, समोऽहुणा भणइ को विसेसो सिं / नणु खीणम्मि उइन्ने, सेसोवसमे खओवसमो॥ सो चेव नणूवसमो, उइए खीणम्मि सेसए समिए / सुहुमोदयया मीसे, न तूवसमिए विसेसोऽयं // वेएइ संतकम्म, खओवसमिएसु. नाणुभागं सो। उवसंतकसाओ पुण, वेएइ न संतकम्मं पि // (विशेषा० गा० 1291-93) 1 ऊपरदेशं दग्धं च विध्यायति वनदवः प्राप्य / इति मिथ्यावस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः॥ . 2 उपशमकश्रेण्याः प्रस्थापकोऽप्रमत्तविरत इति / पर्यवसाने स वा भवति प्रमत्तोऽविरतो वा // अन्ये भणन्त्यविरतदेशप्रमत्ताप्रमत्तविरतानाम् / अन्यतरः प्रतिपद्यते दर्शनसमये तु निवृत्तिः // संज्वलादीनां शमो युक्तः संयोजनादयो ये तु / ते पूर्वमेव शमिताः ननु सम्यक्त्वादिलामे // 3 भाष्ये समणम्मि-शमने // 4 आसीत् क्षयोपशम एषां शमोऽधुना भण्यते को विशेषोऽनयोः? / ननु क्षीणे उदीणे शेषोपशमे क्षयोपशमः॥ स एव ननूपशमः उदिते क्षीणे शेषके शमिते / सूक्ष्मोदयता मिश्रे न खौपशमिके विशेषोऽयम् // वेदयति सत्कर्म क्षायोपशमिकेषु नानुभागं सः। उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि //