________________ 13] पडशीतिनामा चतुर्थः कर्मग्रन्थः / 139 तैम्मि य तइय चउत्थे, भवम्मि सिझंति खइयसम्मत्ते / सुरनरयजुगलिसु गई, इमं तु जिणकालियनराणं // पडिवत्तीए अविरयदेसपमचापमत्तविरयाणं / / अन्नयरो पडिवज्जइ, सुक्कज्झाणोवगयचित्तो // (विशेषा० गा० 1314) तथा उदीर्णस्य मिथ्यात्वस्य क्षये सति अनुदीर्णस्य उपशमः-विपाकप्रदेशवेदनरूपस्य द्विविघस्याप्युदयस्य विष्कम्भणं तेन निर्वृतमौपशमिकम् , तच्च द्विधा-प्रन्थिभेदसम्भवमुपशमश्रेणिसम्भवं च / तत्र ग्रन्थिभेदसम्भवमेवम्-इह गम्भीरापारसंसारसागरमध्यमध्यासीनो जन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्तान् अनन्तदुःखलक्षाण्यनुभ्य कथमपि तथाभव्यत्वपरिपाकवशतो गिरिसरिदुपलघोलनाकल्पेनाऽनाभोगनिर्वर्तितयथाप्रवृत्तिकरणेन “करणं परिणामोऽत्र" इति वचनादध्यवसायविशेषरूपेणाऽऽयुर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमासयेयभागन्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति, अत्र चाऽन्तरे जीवस्य कर्मजनितो धनरागद्वेषपरिणामरूपः कर्कशनिबिडचिरप्ररूढगुपिलवक्रान्थिवद् दुर्भेदोऽभिन्नपूर्वो प्रन्धिर्भवति / तदुक्तम् तीए वि थोवमित्ते, खविए इत्यंतरम्मि जीवस्स / हवइ हु अभिन्नपुव्वो, गंट्टी एवं जिणा बिंति // (धर्मसं० गा० 752) गंठि ति सुदुन्भेओ, कक्खडघणरूढगूढगंठि व्व / जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो॥ (विशेषा० गा०११९५) इति / इमं च प्रन्थि यावद् अभव्या अपि यथाप्रवृत्तिकरणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति / उक्तं चावश्यकटीकायाम्. अभव्यस्यापि कस्यचिद् यथाप्रवृत्तिकरणतो प्रन्थिमासाद्य अर्हदादिविभूतिदर्शनतः प्रयोजनान्तरतो वा प्रवर्तमानस्य श्रुतसामायिकलाभो भवति न शेषलाभ इति // (पत्र 76) - एतदनन्तरं कश्चिदेव महात्मा समासन्नपरमनिर्वृतिसुखः समुल्लसितप्रचुरदुर्निवारवीर्यप्रसरो निशितकुठारधारयेव परमविशुद्ध्या यथोक्तखरूपस्य ग्रन्थेहेंदं विधाय मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्याऽपूर्वकरणानिवृत्तिकरणलक्षणविशुद्धिजनितसामोऽन्तर्मुहूर्तकालप्रमाणं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति / अत्र यथाप्रवृत्तिकरणापूर्वकरणानिवृत्तिकरणानामयं क्रमः जो गंठी ता पढम, गंठिं समइच्छओ भवे बीयं / अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे // (विशेषा० गा० 1203) तस्मिंश्च तृतीये चतुर्थे भवे सिध्यन्ति क्षायिकसम्यक्त्वे / सुरनारकयुगलिकेषु गतिरेतत्तु जिनकालिकनराणाम् // प्रतिपत्तौ अविरतदेशप्रमत्ताप्रमत्तविरतानाम् / अन्यतरः प्रतिपद्यते शुक्लध्यानोपगतचित्तः // 2 तस्या अपि स्तोकमात्रे क्षपितेऽत्रान्तरे जीवस्य / भवति हि अभिन्नपूर्वो प्रन्थिरेवं जिना अवते // प्रन्थिरिति सुदर्भेदः कर्कशघनरूढगूढप्रन्थिरिव / जीवस्य कर्मजनितो धनरागद्वेषपरिणामः॥ 3 यावद् प्रन्थिस्तावद प्रथमं प्रन्थि समतिकामतो भवेद् द्वितीयम् / अनिवृत्तिकरणं पुनः पुरस्कृतसम्यक् जीवे॥