________________ 12] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 137 जंघाबलम्मि खीणे, अविहरमाणो वि नवरि नावजे / तत्थेव अहाकप्पं, कुणइ उ जोगं महाभागो // (पञ्चव० गा० 1522) __ एते च परिहारविशुद्धिका द्विविधाः, तद्यथा-इत्वरा यावत्कथिकाश्च / तत्र ये कल्पसमात्यनन्तरमेव कल्पं गच्छं या समुपयास्यन्ति त इत्वराः, ये पुनः कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ते ते यावत्कथिकाः / उक्तं च ईत्तरिय थेरकप्पे, जिणकप्पे आवकहिय ति // (पञ्चव० गा० 1524) ____ अत्र स्थविरकल्पग्रहणमुपलक्षणं खकल्पे वेति द्रष्टव्यम् / तत्रेत्वराणां कल्पप्रभावाद् देवमनुष्यतिर्यम्योनिककृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषयाश्च वेदना न प्रादुःषन्ति, यावत्कथिकानां सम्भवेयुरपि / ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्तीति / उक्तं च इत्तरियाणुवसग्गा आयंका वेयणा य न हवन्ति / आवकहियाण भइया, (पञ्चव० गा० 1526) इति / तथा "सुहुम" ति 'सूक्ष्मसम्परायं' सम्परैति-पर्यटति संसारमनेनेति सम्परायः-क्रोधादिकषायः, सूक्ष्मो लोभांशमात्रावशेषतया सम्परायो यत्र तत् सूक्ष्मसम्परायम् / इदमपि संक्लिश्यमानकविशुद्ध्यमानकभेदं द्विधा / तत्र श्रेणिप्रच्यवमानस्य संक्लिश्यमानकम् , श्रेणिमारोहतो विशुद्ध्यमानकमिति / "अहखाय" चि अथशब्दोऽत्र याथातथ्ये, आङ् अभिविधौ, आसमन्ताद् याथातथ्येन ख्यातमथाख्यातम्, कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातम् / यद्वा यथा सर्वस्मिन् जीवलोके ख्यातं प्रसिद्धम् अकषायं भवति चारित्रमिति यत्तद् यथाख्यातम् / “देसजय" ति देशे-सङ्कल्पनिरपराधत्रसवधविषये यतं यमनं संयमो यस्य स देशयतः-सम्यग्दर्शनयुत एकाणुव्रतादिधारी, अनुमतिमात्रश्रावक इत्यर्थः / यदाह श्रीशिवशर्मरिवरः कर्मप्रकृती ऍगधयाइ चरमो, अणुमइमित्त ति देसजई // (गा० 340) "अजय" ति न विद्यते यतं-विरतं विरतिर्यस्य सोऽयतः सर्वथा विरतिहीनः / तथा दर्शनशब्दस्य प्रत्येकं सम्बन्धात् चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानि / तत्र चक्षुषा दर्शनं वस्तुसामान्यांशात्मकं ग्रहणं चक्षुर्दर्शनम् 1, अचक्षुषा-चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यद् दर्शनं-सामान्यांशात्मकं ग्रहणं तद् अचक्षुर्दर्शनम् 2, अवधिना-रूपिद्रव्यमर्यादया दर्शनं-सामान्यांशग्रहणमवधिदर्शनम् 3, केवलेन-संपूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद् दर्शनं-सामान्यांशग्रहणं तत् केवलदर्शनम् 4 इति / किरूपाण्येतानि दर्शनानि ! अत आह–'अनाकाराणि' सामान्याकारयुक्तत्वे सत्यपि न विद्यते विशिष्टव्यक्क आकारो येषु तान्यनाकाराणि / भावार्थः प्रागेवोक्त इति // 12 // ' जकाबले क्षीणेऽविहरनपि नवरं नापद्यते। तत्रैव यथाकल्पं करोति तु योग महाभागः॥ इखराः स्थविरकल्पे, जिनकल्पे यावत्कथिका इति // 3 इसरिकाणामुपसर्गा भात वेदनाव न भवन्ति / यावत्कथिकानां भकाः॥ 4 एकव्रतादिचरमः अनुमतिमात्र इंति देशयतिः॥ 5 व्यक मा० . क.१०