________________ षडशीतिनामा चतुर्थः कर्मप्रन्थः / .135 ध्यानद्वारे-धर्मध्यानेन प्रवर्तमानेन परिहारविशुद्धिकं करूपं प्रतिपद्यते / पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति केवलं प्रायेण निरनुबन्धः / उक्तं च झाणम्मि वि धम्मेणं, पडिवजइ सो पवड्डमाणेणं / इयरेसु वि झाणेसुं, पुव्वपवन्नो न पडिसिद्धो // ऐवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा / रुद्देसु वि भावो, इमस्स पायं निरणुबंधो // (पञ्चव० गा० 1505-6) गणद्वारे-जघन्यतस्त्रयो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसङ्ख्याः / पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः / पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः सहस्रम् / पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः, उत्कर्षतः सहस्रशः / आह च गैणओ तिन्नेव गणा, जहन्न पडिवत्ति सयस उक्कोसा / उकोसजहन्नेणं, सयसु चिय पुव्वपडिवन्ना // सत्तावीस जहन्ना, सहस्समुकोसओ य पडिवत्ती। सयसो सहस्ससो वा, पडिवन्न जहन्न उक्कोसा // (पश्चव० गा० 1534-35) अन्यच्च यदा पूर्वप्रतिपन्नः कल्पमध्याद् एको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्तौ कदाचिद् एकोऽपि भवति पृथक्त्वं वा / उक्तं च पैडिवजमाण भइया, इक्को वि य हुज ऊणपक्खेवे / पुवपडिवन्नया वि य, भइया एक्को पुहत्तं वा // (पञ्चव० गा० 1536) अभिग्रहद्वारे-अभिग्रहाश्चतुर्विधाः / तद्यथा-द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्च विचित्रा भवन्ति / तत्र परिहारविशुद्धिकस्य इमेऽभिग्रहा न भवन्ति, यमाद् एतस्य कल्प एवं यथोदितरूपोऽभिग्रहो वर्तते / उक्तं च दवाईय अभिग्गह, विचित्तरूवा न हुंति पुण केई / एयर्स जावकप्पो, कप्पु चियऽभिग्गहो जेण // ऐयम्मि गोयराई, नियया नियमेण निरखवाया य। . तप्पालणं चिय परं, एयस्स विसुद्धिठाणं तु // (पञ्चव० गा० 1509-10) प्रव्रज्याद्वारे-नासावन्यं प्रव्राजयति कल्पस्थितिरेषेति कृत्वा / उक्तं च ध्यानेऽपि धर्मेण (भ्यानेन) प्रतिपद्यतेऽसौ प्रवर्धमानेन / इतरेष्वपि भ्यानेषु पूर्वप्रपनो न प्रतिषिद्धः॥ एवं च कुशलयोगे उदामे तीव्रकर्मपरिणामात् / रौद्रातयोरपि भावोऽस्य प्रायो निरनुबन्धः॥ 2 एवं अक. क० ख० ग० घ० रु०॥ 3 गणतस्त्रय एव गणा जघन्या प्रतिपत्तिः शतश उत्कृष्ट / उत्कृष्टजघन्याभ्यां शतश एवं पूर्वप्रतिपनाः // सप्तविंशतिर्जघन्या सहस्राण्युत्कृष्टतच प्रतिपत्तिः / शतशः सहस्रशो वा प्रतिपक्षा जपन्या उत्कृय // 4 प्रतिपद्यमाना भका एकोऽपि च भवेद् ऊनप्रक्षेपे / पूर्वप्रतिपक्षका अपि भा एकः पृथक्लं वा॥ 5 द्रव्यादिका अभिप्रहा विचित्ररूपा न भवन्ति पुनः केऽपि / एतस्य यावत्कल्प कल्प एवाभिप्रहो येन // ब्वाईआऽभि इति पञ्चवस्तुके। ति इत्तिरिआ / इति पश्चवस्तके। ८°स्स भावकहिओ कप्पो चि° इति पञ्चवस्तुके॥ एतस्मिन् गोचरादयो नियता नियमेन निरपवादाथ / तत्पालनमेव परमेतस्य विशुद्धिस्थानं तु॥