________________ 134 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा वा भवेद् अवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिप्रतिपत्तौ वा, क्षपकश्रेणिप्रति. पत्तौ स्ववेद इति / उक्तं च 'वेदो पवित्तिकाले, इत्थीवजो उ होइ एगयरो। पुन्वपडिवन्नओ पुण, होज सवेओ अवेओ वा // (पञ्चव० गा० 1497) कल्पद्वारे-खितकल्प एवायं नास्थितकरुपे, “ठियकप्पम्मि वि नियमा" (पञ्चव० गा. 1533) इति वचनात् / तत्राऽऽचेलक्यादिषु दशखपि स्थानेषु ये स्थिताः साधवस्तत्कल्पः स्थितकल्प उच्यते, ये पुनश्चतुर्षु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाऽऽचेलक्यादिषु षवस्थितास्तत्कल्पोऽस्थितकल्पः / उक्तं च ठिय अट्ठिओ य कप्पो, आचेलकाइएसु ठाणेसु / सव्वेसु ठिया पढमो, चउ ठिय छसु अट्ठिया बीओ।। (पञ्चव० गा० 1499) आचेलक्यादीनि च दश स्थानान्यमूनि : आचेलकुदेसियसिज्जायररायपिंडकिइकम्मे / __वयजिट्ठपडिक्कमणे, मासंपज्जोसवणकप्पे // (पञ्चव० गा० 1500) * चस्वारश्चावस्थिताः कल्पा इमे सिज्जोयरपिंडम्मी, चाउज्जामे य पुरिसजेट्टे य। किइकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा // (पञ्चाश० 17 गा० 10) लिङ्गद्वारे-नियमतो द्विविधेऽपि लिङ्गे भवति / तद्यथा-द्रव्यलिङ्गे भावलिङ्गे च / एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् / लेश्याद्वारे-तेजःप्रभृतिकासूत्तरासु तिसूषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वाखपि कथञ्चिद् भवति, तत्राऽपीतराखविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकम् , यतः खवीर्यवशात् झटित्येव ताभ्यो व्यावर्तते / अथ प्रथमत एव कस्मात् प्रवर्तते ! उच्यते-कर्मवशात् / उक्तं च लेसासु विसुद्धासुं, पडिवजइ तीसु न उण सेसासु / पुन्वपडिवन्नओ पुण, हुज्जा सव्वासु वि कहंचि // नचंतसंकिलिट्ठासु थोवकालं च हंदि इयरेसु / चित्ता कम्माण गई, तहा वि विरियं फलं देह // (पञ्चव० गा० 1503-4) वेदः प्रवृत्तिकाले स्त्रीवर्जस्तु भवति एकतरः / पूर्वप्रतिपक्षकः पुनर्भवेत् सवेदोऽवेदो वा // 1 स्थितकल्प एव नियमात् / 3 स्थितोऽस्थितश्च कल्पः आचेलक्यादिकेषु स्थानेषु / सर्वेषु स्थिताः प्रथमः चतुर्पु स्थिताः षदखस्थिता द्वितीयः॥ 4 आचेलक्यौदेशिकशय्यातरराजपिण्डकृतिकर्माणि / व्रतज्येष्ठप्रतिक्रमणानि मासपर्युषणाकल्पौ॥ 5 शय्यातरपिण्डे चतुर्यामे च पुरुषज्येष्ठ्ये च / कृतिकर्मणश्च करणे चलारोऽवस्थिताः कल्पाः॥ (पश्चाशके प्रवचनसारोद्धारेच-'ठिइकप्पो मज्झिमाणं तु' इत्येवं पाठः॥ 7 लेश्यासु विशुद्धासु प्रतिपयते तिसूषु न पुनः शेषासु / पूर्वप्रतिपनकः पुनर्भवेत् सर्वाखपि कथञ्चित् // नात्यन्तसंक्लियसु स्तोककालं वहन्दि इतरासु / चित्रा कर्मणां गतिः तथापि वीर्य फलं ददाति // 8 इयराम घ०पञ्चवस्तकेच॥ .