________________ 12] षडशीतिनामा चतुर्थः कर्मग्रन्थः / / 'ते 'वि असंखा लोगा, अविरुद्धा चेव पढमबीयाणं / उवरि पि तो असंखा, संजमठाणाउ दुण्हं पि // (पञ्चव० गा० 1531) तत्र परिहारविशुद्धिककल्पप्रतिपत्तिः खकीयेष्वेव संयमस्थानेषु वर्तमानस्य भवति न शेषेषु / यदा वतीतनयमधिकृत्य पूर्वप्रतिपन्नो विवक्ष्यते तदा शेषेष्वपि संयमस्थानेषु भवति, परिहारविशुद्धिककल्पसमाप्त्यनन्तरमन्येष्वपि च चारित्रेषु सम्भवात् , तेष्वपि च वर्तमानस्याऽतीतनयमपेक्ष्य पूर्वप्रतिपन्नत्वात् / उक्तं च सट्ठाणे पडिवत्ती, अन्नेसु वि हुज्ज पुज्वपडिवन्नो / तेसु वि वÉतो सो, तीयनयं पप्प वुच्चइ उ // (पञ्चव० गा० 1532) तीर्थद्वारे-परिहारविशुद्धिको नियमतः तीथे प्रवर्तमान एव सति भवति, न तूच्छेदेऽनुमत्त्यां वा तदभावे जातिस्मरणादिना / उक्तं च "तिथि ति नियमओ चिय, होइ.स तित्यम्मि न उण तदभावे / / विगएऽणुप्पन्ने वा, जाईसरणाईएहिं तु // (पञ्चव० गा० 1492) पर्यायद्वारे--पर्यायो द्विधा-गृहस्थपर्यायो यतिपर्यायश्च / एकैकोऽपि द्विधा-जघन्य उत्कृष्टश्च / तत्र गृहस्थपर्यायो जघन्य एकोनत्रिंशद्वर्षाणि, यतिपर्यायो विंशतिः, द्वावपि चोकष्टतो देशोनपूर्वकोटीप्रमाणौ / उक्तं च ऐयस्स एस नेओ, गिहिपरियाओ जहन्निगुणतीसा / / जइपरियाओ वीसा, दोसु वि उक्कोस देसूणा // (पञ्चव० गा० 1994) .. आगमद्वारे-अपूर्वागमं स नाधीते, यस्मात् तं कल्पमधिकृत्य प्रगृहीतोचितयोगाराधनत एव स कृतकृत्यतां भजते, पूर्वाधीतं तु विश्रोतसिकाक्षयनिमित्तं नित्यमेवैकाप्रमनाः सम्यक् प्रायोऽनुस्मरति / उक्तं च अप्पुव्वं नाहिजइ, आगममेसो पडुच्च तं कैप्पं / जमुचियपंगहियजोगाराहणओ चेव कयकियो / पुव्याहीयं तु तयं, पायं अणुसरइ निच्चमेवेसो / एगग्गमणो सम्मं, विस्सोयसिगाइखयहेऊ // (पञ्चव० गा० 1495-96) वेदद्वारे-प्रवृत्तिकाले वेदः पुरुषवेदो वा नपुंसकवेदो वा भवेत् , न स्त्रीवेदः, स्त्रियाः परिहारविशुद्धिककल्पप्रतिपत्त्यसम्भवात् / अतीतनयमधिकृत्य पुनः पूर्वप्रतिपनश्चिन्त्यमानः सवेदो * 1 तान्यपि असल्यानि लोकानि अविरुद्धान्येव प्रथमद्वितीययोः। उपर्यपि ततोऽसंख्यातानि संयमस्थानानि द्वयोरपि // 2 ताण वि असंखलो पञ्चवस्तुके। 3 खस्थाने प्रतिपत्तिरन्येष्वपि भवेत् पूर्वप्रतिपमः। तेष्वपि वर्तमानः सोऽतीतनयं प्राप्य उच्यते तु॥ 4 तीर्थे इति नियमत एव भवति स तीर्थे न पुनख. . दभावे / विगतेऽनुत्पन्ने वा जातिस्मरणादिकैस्तु // 5 एतस्यैष झेयो गृहिपर्यायो जघन्यत एकोनत्रिंशत् (वर्षाणि)। यतिपर्यायो विंशतियोरपि उत्कृष्टो देशोना (पूर्वकोटी)॥ अपूर्व नाधीते भागममेष प्रतीत्य तं कल्पम् / यदुचितप्रगृहीतयोगाराधनत एव कृतकृत्यः॥ 7 जम्मं पश्ववस्तुके॥८°पगिढजो° पञ्चवस्तुके // 9 पूर्वाधीतं तु तत् (श्रुतम्) प्रायोऽनुस्मरति नित्यमेवैषः / एकाप्रमनाः सम्यग् विश्रोतसिकाविक्षयहेतुम् //