________________ 132 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेता [गाथा तित्थयरसमीवासेवगस्स पासे व न उण अन्नस्स। . एएसिं जं चरणं, परिहारविसुद्धिगं तं तु // (प्रवच० गा० 610) ' अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा भवन्ति !, उच्यते-रह क्षेत्रादिनिरूपपार्थ विंशतिद्वाराणि / तद्यथा-क्षेत्रद्वारं 1 कालद्वारं 2 चारित्रद्वार 3 तीर्थद्वारं 4 पर्यायद्वारम् 5 आगमद्वारं 6 वेदद्वारं 7 कल्पद्वारं 8 लिङ्गद्वार 9 लेश्याद्वारं 10 ध्यानद्वारं 11 गणद्वारम् 12 अभिग्रहद्वारं 13 प्रव्रज्याद्वारं 14 मुण्डापनद्वारं 15 प्रायश्चित्तविधिद्वार 16 कारणद्वारं 17 निःप्रतिकर्मद्वारं 18 भिक्षाद्वारं 19 बन्धद्वारम् 20 / तत्र क्षेत्रे द्विधा मार्गणा-जन्मतः सद्भावतश्च / यत्र क्षेत्रे जातस्तत्र जन्मतो मार्गणा, यत्र च कल्पे स्थितो वर्तते तत्र सद्भावतः / उक्तं च-.. .. खिते दुहेह मग्गण, जम्मणओ चेव संतिभावे य / जम्मणओ जहिं जाओ, संतीभावो य जहिं कैप्पो // (पञ्चव०.१४८५) तत्र जन्मतः सद्भावतश्च पञ्चसु भरतेषु पञ्चखैरवतेषु न तु महाविदेहेषु / न चैतेषां संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन् / उक्तं च 'खेते भरहेरवएसु हुति संहरणवज्जिया नियमा। (पञ्चव० गा० 1529) कालद्वारे-अवसर्पिण्यां तृतीये चतुर्थे वाऽरके जन्म, सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावः पुनस्तृतीये चतुर्थे वा / उक्तं च ओसैप्पिणीऍ दोसु, जम्मणओ 'तीसु संतिभावेणं / . उस्सप्पिणि विवरीओ, जम्मणओ संतिभावेणं // (पञ्चव० गा० 1487) नोउत्सर्पिण्यवसर्पिणीरूपे चतुर्थारकप्रतिभागे काले न सम्भवन्ति, महाविदेहक्षेत्रे तेषामसम्भवात् / चारित्रद्वारे-संयमद्वारेण मार्गणा / तत्र सामायिकस्य च्छेदोपस्थापनस्य च चारित्रस्य यानि जघन्यानि संयमस्थानानि तानि परस्परं तुल्यानि, समानपरिणामत्वात् , ततोऽसयेयलोकाकाशप्रदेशप्रमाणानि संयमस्थानान्यतिक्रम्योर्ध्व यानि संयमस्थानानि तानि परिहारविशुद्धियोग्यानि, तान्यपि च केवलिप्रज्ञया परिमाव्यमानान्यसझयेयलोकाकाशप्रदेशप्रमाणानि, तानि प्रथमद्वितीयचारित्राविरोधीवि तेष्वपि सम्भवात् / तत ऊर्ध्व यानि सङ्ख्यातीतानि संयमस्थानानि तानि सूक्ष्मसम्पराययथाख्यातचारित्रयोग्यानि / उक्तं च तुल्ला जहन्नठाणा, संजमठाणाण पढमबियाणं / ' तत्तो असंखलोए, गंतुं परिहारियट्ठाणा // (पञ्चव० गा० 1530) .१तीर्थकरसमीपासेवकस्य पार्श्वे वा न पुनरन्यस्य / एतेषां यत् चरणं परिहारविशुद्धिकं तत्तु // 2 क्षेत्र द्विधेह मार्गणा जन्मतवैव सद्भावतश्च / जन्मतो यत्र जातः सद्भावतश्च यत्र कल्पः॥ 3 कप्पे क. स्व. ग०००॥ ४क्षेत्रे भरतैरवतयोः भवन्ति संहरणवर्जिता नियमाद्॥ 5 अवसर्पिण्या दूयोर्जन्मतखिमषु सद्भावेन / उत्सर्पिण्यां विपरीतं जन्मतः सद्भावतः // ६तिसुभ संपञ्चवस्तुके॥ 7 तुल्यानि अपन्यस्थानानि संयमस्थानयोः प्रथमद्वितीययोः। ततोऽसङ्ख्यातलोकान् गला परिहारिकस्थानानि // ८°णाई पक०ख०म०प० रु०॥