________________ 12] षडशीतिनामा चतुर्थः कर्मग्रन्थः / 131 नान्यत्र / तच्च द्विधा-सातिचारं निरतिचार च। तत्राऽनतिचारमित्वरसामायिकस्य शैक्षकस्य यद आरोप्यते, तीर्थान्तरं वा सङ्कामतः साधोः, यथा श्रीपार्श्वनाथतीर्थाद् वर्धमानखामितीर्थ सङ्कामतः पञ्चयामधर्मप्रतिपत्तौ / सातिचारं पुनर्यद् मूलगुणघातिनः पुनर्वतोच्चारणम् / “परिहारे" त्ति 'परिहारविशुद्धिकं' परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धिर्यस्मिंश्चारित्रे तत् परिहारविशुद्विकम् , तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च / तत्र निर्विशमानका विवक्षितचारित्रसेवकाः, निर्विष्टकायिका आसेवितविवक्षितचारित्रकायिकाः, तदन्यतिरेकात् चारित्रमप्येवमुच्यते / इह नवको गणः, तत्रैको वाचनाचार्यश्चत्वारो निर्विशमानकाश्चत्वारश्चाऽनुचारिणः / निविंशमानकानां चायं तपोविशेषः परिहारियाण उ तवो, जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले, भणिओ धीरेहिँ पत्तेयं // तत्थ जहन्नो गिम्हे, चउत्थ छटुं तु होइ मज्झिमओ / अट्ठममिह उक्कोसो, इत्तो सिसिरे पवक्खामि // . सिसिरे उ जहन्नाई, छट्टाई दसमचरिमगो होइ / वासासु अट्ठमाई, बारसपज्जंतगो नेओ // पारणगे आयामं, पंचसु गहों दोसऽभिग्गहो मिक्खे / कप्पट्टिया वि पइदिण, करेंति एमेव आयामं // एवं छम्मास तवं, चरित्रं परिहारिया अणुचरंति / अणुचरगे परिहारियपैयट्टिए जाव छम्मासा // कैप्पट्टिओ वि एवं, छम्मास तवं करेइ सेसा उ / अणुपरिहारिंगभावं, वयंति कप्पट्टियत्तं च // ऎवेसो अट्टारसमासपमाणो उ वन्निओ कप्पो / संखेवओ विसेसो, विसेससुत्ताउ नायबो // कैप्पसमत्तीइ तयं, जिणकप्पं वा उविंति गच्छं वा। पडिवज्जमाणगा पुण, जिणस्सगासे पवजति // (प्रवच० गा०६०२-६०९) परिहारिकाणां तु तपः जघन्य मध्यम तथैवोत्कृष्टम् / शीतोष्णवर्षाकाले भणितं धीरैः प्रत्येकम् // तत्र जघन्यं प्रीमे चतुर्थ षष्ठं तु भवति मध्यमम् / अष्टममिह उत्कृष्टमितः शिशिरे प्रवक्ष्यामि // शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति / वर्षासु अष्टमादि द्वादशपर्यन्तकं झेयम् ॥पारणके आचाम्ल पञ्चसु ग्रहः दूयोरभिप्रहो भिक्षे / कल्पस्थिता अपि प्रतिदिनं कुर्वन्ति एवमेवाचामाम्लम् // एवं षण्मासान् तपश्चरिला परिहारिका अनुचरन्ति / अनुचरकाः परिहारिकपदस्थिता यावत् षण्मासान् // 2 प्रवचनसारोद्धारेतु-परिट्ठिए-परिस्थिताः इति // 3 कल्पस्थितोऽप्येवं षण्मासास्तपः करोति शेषास्तु / अनुपरिहारिकभावं ब्रजन्ति कल्पस्थितलं च // एवं एषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः / संक्षेपतो विशेषो विशेषसूत्राद ज्ञातव्यः॥ 4 एवं सो अ°क० ग०॥ 5 कल्पसमाप्तौ तक (परिहारिककल्पं)जिनकल्पं वोपयन्ति गच्छ वा। प्रतिपथमानकाः पुनर्जिनसकाशे प्रपद्यन्ते //