________________ 128 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा कसमन्विता इत्यर्थः 13 / ओजआहारलोमाहारकवलाहाराणामन्यतममाहारमाहारयति-गृहा. तीत्याहारः, "अच्" (सि० 5-1-49) इत्यच् [प्रत्ययः ] आहारक इत्यर्थः 14 / ओजआहारादीनां लक्षणमिदम् सरिरेणोयाहारो, तयाइ फासेण लोमआहारो। पक्खेवाहारो पुण, कावलिओ होइ नायबो // (प्रव० गा० 1980) // 9 // उकानि मूलभूतानि चतुर्दश मार्गणास्थानानि / इदानीमेतेषामेवोत्तरभेदानाह सुरनरतिरिनिरयगई, इगपियतियचउपणिदि छकाया। भूजलजलणाऽनिलवणतसा य मणवयणतणुजोगा // 10 // इह गतिशब्दः प्रत्येक सम्बध्यते, ततः सुरगतिः नरगतिः तिर्यग्गतिः नरकगतिः / तत्र सुष्ठ राजन्त इति सुराः, यदि वा सुष्टु रान्ति-ददति प्रणतानामभीप्सितमर्थ लवणाधिपसुस्थित इव लवणजलधौ मार्ग जनार्दनस्येति सुराः, यद्वा 'सुरत् ऐश्वर्यदीयोः' सुरन्तिविशिष्टमैश्वर्यमनुभवन्ति दिव्याभरणसम्भारसमृद्ध्या सहजनिजशरीरकान्त्या च दीप्यन्त इति सुराः, सुरेषु विषये गतिः सुरगतिः / नृणन्ति-विवेकमासाद्य नयधर्मपरा भवन्तीति नराःमनुष्यास्तेषु विषये गतिर्नरगतिः। “तिरि" ति प्राकृतत्वात् तिरोऽञ्चन्ति-गच्छन्तीति तिर्यञ्चः, व्युत्पत्तिनिमित्तं चैतत् प्रवृत्तिनिमित्तं तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, ततस्तिर्यक्षु विषये गतिस्तिर्यग्गतिः / नरान् उपलक्षणत्वात् तिरश्चोऽपि प्रमूतपापकारिणः कायन्तीव आह्वयन्तीवेति नरकाः-नरकावासास्तत्रोत्पन्ना जन्तवोऽपि नरकाः, नरको वा विद्यते येषां ते "अनादिभ्यः" (सि०७-२-४६) इत्यप्रत्यये नरकास्तेषु विषये गतिर्नरकगतिः / इहापि इन्द्रियशब्दस्य प्रत्येकं सम्बन्धाद् एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रिया इति 2 / षट् कायाः-भूः-पृथ्वी जलम्-आपः ज्वलनं-तेजः अनिलः–वायुः "वण" ति वनस्पतिः त्रसाः-द्वीन्द्रियादयः; ततः प्रत्येकं कायशब्दस्य योगात् पृथिव्येव कायः शरीरं यस्य स पृथिवीकायः, एवमप्कायः तेजस्कायः वायुकायः वनस्पतिकायः. प्रसकाय इति 3 / 'चः' समुच्चये / योगशब्दस्य प्रत्येकं सम्बन्धात् त्रयो योगाः, तथाहिमनोयोगः वचनयोगः तनुयोगः / तत्र तनुयोगेन मनःप्रायोग्यवर्गणाभ्यो गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि वस्तुचिन्ताप्रवर्तकानि द्रव्याणि मन इत्युच्यन्ते, तेन मनसा सहकारिकारणभूतेन योगो मनोयोगः, मनोविषयो वा योगो मनोयोगः / उच्यत इति वचनं भाषापरिणामापन्नः पुद्गलद्रव्यसमूह इत्यर्थः, तेन वचनेन सहकारिकारणभूतेन योगो वचनयोगः, वचनविषयो वा योगो वचनयोगः / तनोति-विस्तारयत्यात्मप्रदेशानस्यामिति तनुरौदारिकादिशरीरं तया सहकारिकारणभूतया योगस्तनुयोगः, तनुविषयो वा योगस्तनुयोगः 4 // 10 // वेय नरित्थिनपुंसा, कसाय कोहमयमायलोभ त्ति / मइसुयज्वहिमणकेवलविभंगमइसुअनाणसागारा // 11 // वेदशब्दस्य प्रत्येकं सम्बन्धात् त्रयो वेदाः-नरवेदः स्त्रीवेदः नपुंसकवेदः / तत्र नरस्यशरीरेणौजाहारस्वचा सर्गेन लोमाहारः / प्रक्षेपाहारः पुनः कावलिको भवति सातव्यः //