________________ 10-11] पडशीतिनामा चतुर्थः कर्मग्रन्थः / 129 पुरुषस्य स्त्रियं प्रति अभिलाषो नरवेदः, स्त्रियः योषितः पुरुषं प्रत्यभिलाषः स्त्रीवेदः, नपुंसकस्य-पण्डस्य स्त्रीपुरुषो प्रत्यभिलाषो नपुंसकवेदः 5 / कषायाश्चत्वारः-क्रोधकषायः “मद" ति मदो मानोऽहकारो गर्व इत्यर्थः मानकषायः मायाकपाय: लोभकषायः / इतिशब्दः कषायाणामनन्तानुबन्ध्यादिबहुभेदसूचनार्थः, सूत्रे च "मायलोभ" ति हखत्वं प्राकृतत्वात् 6 // "मइसुयऽवहि" इत्यादि / इहाऽवधीत्यत्राऽकारलोपाद् ज्ञानशब्दस्य च प्रत्येकं सम्बन्धाद् एवं प्रयोगः-मतिज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानम् , तथा विभङ्गमत्यज्ञानभुताज्ञानानि / एतानि पञ्च ज्ञानानि त्रीण्यज्ञानानि साकाराणि वर्तन्त इति वाक्यार्थः / भावार्थस्त्वयम्-"बुधि मनिच् ज्ञाने" मननं मतिः, यद्वा मन्यते-इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः-योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः, मतिश्च सा ज्ञानं च मतिज्ञानम् / श्रवणं श्रुतम्-अभिलापप्लावितार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम् / अवधानमवधिः-इन्द्रियाद्यनपेक्षमात्मनः साक्षादर्थग्रहणम् , अथवा अवशब्दोऽधःशब्दार्थः अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः; यद्वा अवधिः-मर्यादा रूपिप्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, अवधिश्च तद् ज्ञानं च अवधिज्ञानम् / परि-सर्वतोभावे, अवनमवः, "तुदादिभ्योऽनको" इत्यधिकारे “अकितौ च" इत्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः, मनसि मनसो वा पर्यवो मनःपर्यवः सर्वतस्तत्परिच्छेद इत्यर्थः, मनःपर्यवश्व तद् ज्ञानं च मनःपर्यवज्ञानम् / यद्वा मनःपर्यायज्ञानम् , तत्र संज्ञिभिर्जीवैः काययोगेन गृहीतानि मनःप्रायोग्यवर्गणाद्रव्याणि चिन्तनीयवस्तुचिन्तनव्याहतेन मनोयोगेन मनस्त्वेन परिणमय्याऽऽलम्ब्यमानानि मनासीत्युच्यन्ते, तेषां मनसां पर्यायाः-चिन्तनानुगताः परिणामा मनःपर्यायाः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानम् / यद्वा आत्मभिर्वस्तुचिन्तने व्यापारितानि मनांसि पर्येति-अवगच्छतीति मनःपर्यायम् "कर्मणोऽण्" (सि. 5-3-14) इत्यणप्रत्ययः, मनःपर्यायं च तद् ज्ञानं च मनःपर्यायज्ञानम् / केवलम्-एकं मत्यादिरहितत्वात् "नेट्टम्मि उ छाउमथिए नाणे" (आ० नि० गा० 539) इति परममुनिप्रणीतवचनप्रामाण्यात्, शुद्धं वा केवलं तदावरणमलकलङ्कपकापगमात्, सकलं वा केवलं तत्प्रथमतयैव निःशेषतदावरणविगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलम् अनन्यसदृशत्वात् , अनन्तं वा केवलं ज्ञेयानन्तत्वाद अपर्यवसितानन्तकालावस्थायित्वाद्वा, निर्व्याघातं वा केवलं लोकेऽलोके वा कापि व्याघाताभावात्, केवलं च तद् ज्ञानं च केवलज्ञानं यथावस्थितसमस्तभूतभवद्भाविभावावभासि ज्ञानमिति भावना / था मतिश्रुतावधिज्ञानान्येव मिथ्यात्वपङ्ककलुषिततया यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानयपदेशभाञ्जि भवन्ति / उक्तं च आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् // (प्रश० का० 227) इति / नष्टे तु छानस्थिके ज्ञाने /