________________ षडशीतिनामा चतुर्थः कर्मग्रन्थः / 120 ततः कथं तदाऽपि तयोर्नामगोत्रयोरुदीरको न भवति। नैष दोषः, उदये सत्यपि योगसव्यपेक्षत्वाद् उदीरणायाः, सदानी च तस्य योगासम्भवादिति // 8 // तदेवं जीवस्थानकेषु गुणस्थानकाद्यभिधाय साम्प्रतं मार्गणास्थानेषु जीवस्थानकादि विवक्षु. तान्येव तावद् निर्दिशन्नाह गइइंदिए य काए, जोए घेए फसायनाणेसु / संजमदंसणलेसा, भवसम्मे सन्निआहारे // 9 // गम्यते-तथाविधकर्मसचिवै वैः प्राप्यत इति गतिः-नारकत्वादिपर्यायपरिणतिः। इन्दनादिन्द्रः-आत्मा ज्ञानेश्वर्ययोगात् तस्सेदमिन्द्रियम्, "इन्द्रियम्" (सि. 7-1-171) इति सूत्रेणाऽभीष्टरूपनिष्पतिः, ततो गतिश्च इन्द्रियं च गतीन्द्रियं तलिन् गतीन्द्रिये, एवमन्यत्रापि द्वन्द्वः कार्यः, 'च: समुच्चये 2 / चीयते यथायोग्यमौदारिकादिवर्गणागणैरुपचयं नीयत इति कायः "चितिदेहावासोपसमाधाने कश्चादेः" (सि० 5-3-79) इति पञ्प्रत्ययश्चकारस्स ककारः (च) 3 / युज्यते पावनवल्गनादिचेष्टाखात्माऽनेनेति "पुनानि०" (सि० 52-130) इति घे योगः 4 / वेद्यते-अनुभूयत इन्द्रियोद्भूतं सुखमनेनेति वेदः 5 "कष शिष जप अप" इत्यादिदण्डकधातुः, कष्यन्ते-हिंस्यन्ते परस्परमस्मिन् माणिन इति कष:संसारः, कपमयन्ते-गच्छन्ति एमिर्जन्तव इति कषायाः; यद्वा कपस्यायः-लाभो येभ्यस्ते कषायाः 6 / ज्ञातिर्ज्ञानम्, यद्वा ज्ञायते-परिच्छिद्यते वस्त्वनेनेति ज्ञानम्, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः / संयमनं-सम्यगुपरमणं सावधयोगादिति संयमः, यद्वा संयम्यते-नियम्यत आल्मा पापव्यापारसम्भारादनेनेति संयमः “संनिव्युपाद्यमः" (सि० 5-3-25) इति सूत्रेणात्प्रत्ययः, यदि वा सम्-शोभना यमाः-प्राणातिपातानृतभाषणादत्तादानाब्रह्मपरिग्रहविरमणलक्षणा अस्मिन्निति संयमश्चारित्रम् 8 / दृश्यते-विलोक्यते वस्त्वनेनेति दर्शनम् , यदि वा दृष्टिदर्शनम् , सामान्य विशेषात्मके वस्तुनि सामान्यात्मको बोष इत्यर्थः / लिश्यते-शिष्यते कर्मणा सहाऽऽत्माऽनयेति लेश्या 10 / भवति-परमपदयोग्यतामासादयतीति भव्यः-सिद्धिगमनयोग्यः "भव्यगेयजन्यरम्यापात्याप्लान्यं न वा" (सि० 5-1-7) इति कर्तरि यप्रत्ययः, सूत्रे च यकारलोपः प्राकृतत्वात् 11 // "सम्म" चि सम्य. शब्दः प्रशंसार्थोऽनिरुद्धार्थो वा, सम्यग् जीवः, तद्भावः सम्यक्त्वम्, प्रशस्तो मोक्षाविरोधी या प्रशमसंवेगादिलक्षण आत्मधर्म इति यावत् / यदाहुः श्रीभद्रबाहुखामिपादा: से में सम्मते पसरवसम्मत्तमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे मुहे भायपरिणामे // (आव. नि० पत्र 811-1) इत्यादि 12 // संज्ञावं संज्ञा-भूतभवद्भाविभावखभावपर्यालोचनं सा विद्यते येषां ते संज्ञिनः, "ब्रह्मादिभ्यस्तौ" (सि०७-२-५) इति इन्पत्ययः, विशिष्टसरणादिरूपमनोविज्ञानसहितेन्द्रियपञ्च तसम्यक्वं प्रशस्तसम्यक्खमोहनीयकर्माणुवेदनोपशमक्षयसमुत्थः प्रशमसंवेगादिलिःशुभ आत्मपरिणाम:।। २मतिप्रवलोऽयं लेखकदोषो यमोफ्लभ्यतेऽदः किन्तु बीयादिभ्य इति / तत्त्वत शिखादिभ्य इनित्यनेनैवेन (सि• 7-1-4) //