________________ देवेन्द्रसूरिविरचितखोपाटीकोपतः [गाथा संज्ञिप िसतामाश्रित्य त्रीणि स्थामानि, तद्यथा-सप्त अष्ट चत्वारि / एवमुदयमप्याश्रित्य त्रीणि स्थानानि, तद्यथा-सप्त अष्ट चत्वारि / तत्र सर्वप्रकृतिसमुदयोऽष्टौ, एतासां पाष्टाना सवाऽभव्यानधिकृत्याऽनाद्यपर्यवसाना, भन्यानधिकृत्याऽनादिसपर्यवसाना / तथा मोहे क्षीणे समानां सता, सा चाजघन्योत्कर्षेणाऽन्तर्मुहूर्तप्रमाणा, सा हि क्षीणमोहगुणस्थाने, तस्य च कालमानमन्तहर्तमिति / घातिकर्मचतुष्टयक्षये च चतसणां सजा, सा प अपन्येनाऽन्तर्मह प्रमाणा, उत्कर्षेण पुनर्देशोनपूर्वकोटिमाना / तथा सर्वप्रकृतिसमुदयोऽष्टौ, तासां च उदयोऽभव्यानाश्रित्याऽनाद्यपर्यवसानः, भव्यानाश्रित्याऽनादिसपर्यवसानः / उपशान्तमोहगुणस्थानकात् प्रतिपतितानाश्रित्य पुनः सादिसपर्यवसानः / स च जघन्येनाऽन्तर्मुहूर्तप्रमाणः, उशमश्रेणीतः पतितस्य पुनरप्यन्तर्मुहूर्तेन कस्याप्युपशमश्रेणिपतिपत्तेः, उत्कर्षेण तु देशोनापापुद्गलपरावर्तः / तथा ता एवाष्टौ मोहनीयवर्जाः सप्त, तासामुदयो जघन्येन एकं समयम् / तथाहि-मोहवर्जसतानां प्रकृतीनामुदय उपशान्तमोहे क्षीणमोहे वा प्राप्यते, तत्र कश्चिद् उपशान्तगुणस्थानके एकं समयं स्थित्वा द्वितीये समये भवक्षयेण दिवं गच्छन् अविरतो भवति, अविरतत्वे चावश्यमष्टानां प्रकृतीनामुदयः, ततः सपानामुदयो जघन्येनैकसमयं यावदवाप्यते, उत्कर्षेण त्वन्तर्मुहूर्तम् , उपशान्तमोहक्षीणमोहगुणस्थानयोरान्तर्मोहूर्तिकत्वात् / तथा. घातिकर्मवर्जाश्चतस्रः प्रकृतयः, तासां च जघन्यत उदय आन्तौइर्तिकः, उत्कर्षेण देशोनपूर्वकोटिप्रमाण इति / पिण्डार्थश्चायम्-मिथ्यादृष्टिगुणस्थानकमारभ्य यावद् उपशान्तमोहगुणस्थानकं तावद् अष्टानामपि सत्ता, क्षीणमोहगुणस्थाने समानां सत्ता, सयोग्ययोगिगुणस्थानकयोश्चतसणां सत्चा / तथा मिथ्यादृष्टेः प्रभृति सूक्ष्मसम्परायं यावद् अष्टानामुदयः, उपशान्तमोहगुणस्थाने क्षीणमोहगुणस्थाने च सप्तानां प्रकृतीनामुदयः, सयोग्ययोगिगुणस्थानयोश्चत. सणामुदय इति / तथा संज्ञिपर्याप्ते उदीरणास्थानानि पञ्च, तद्यथा-सप्त अष्ट षट् पञ्च द्वे इति / तत्र यदाऽनुभूयमानभवायुरावलिकावशेषं भवति तदा तथाखभावत्वेन तस्यानुदीर्यमाणत्वात् सप्तानामुदीरणा, यदा त्वनुभूयमानभवायुरावलिकावशेषं न भवति तदाऽष्टानां प्रकतीनामुदीरणा / तत्र मिथ्यादृष्टिगुणस्थानकात् प्रभृति यावत् प्रमत्तसंयतगुणस्थानकं तावत् सप्तानामष्टानां वा उदीरणा, सम्यग्मिथ्यादृष्टिगुणस्थानके तु सदैवाऽष्टानामेव उदीरणा, आयुष आवलिकाशेषे मिश्रगुणस्थानस्यैवाऽभावात् / तथाऽप्रमत्तगुणस्थानकात् प्रभृति यावत् सूक्ष्मसम्परायगुणस्थानकस्यावलिकाशेषो न भवति तावद् वेदनीयायुर्वर्जानां षण्णां प्रकृतीनामुदीरणा, तदानीमति विशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायस्थानाभावात् आवलिकावशेषे तु मोहनीयस्याऽप्यावलिकाप्रविष्टत्वेनोदीरणाया असम्भवात् ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणामेवोदीरणा / एतेषामेव चोपशान्तमोहगुणस्थानकेऽप्युदीरणा / क्षीणमोहगुणस्थानकेऽप्येतेषामेव यावद् आवलिकामात्रमवशेषो न भवति, आवलिकावशेषे तु ज्ञानावरणदर्शनावरणान्तरायाणामप्यावलिकाप्रविष्टत्वाद् नोदीरणेति द्वयोरेव नामगोत्रयोरुदीरणा, एवं सयोगिकेवलिगुणस्थानकेऽपि / अयोगिकेवलिगुणस्थानके तु वर्तमानो जीवः सर्वथाऽनुदीरक एव / ननु तदानीमप्येष सयोगिकेवलिगुणस्थानक इव भवोपग्राहिकर्मचतुष्टयोदयवान् वर्तते