________________ 121 4-5] षडशीतिनामा चतुर्थः कर्मग्रन्थः। अपर्याप्तानां-सूक्ष्मवादरद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां षट्कं अपर्याप्तषट्कं तस्मिन् अपर्याप्तषट्के संज्ञिपञ्चेन्द्रियापर्याप्तवर्जितेषु षट्सु अपर्याप्तेषु योगौ भवतः। द्विवचनस्य बहुवचनं प्राकृतत्वात् , यथा-"हत्या पाया" इत्यादौ / कौ योगौ ! इत्याह-कार्मणौदारिकमिश्री / तत्र कार्मणकाययोगोऽपान्तरालगतावुत्पत्तिप्रथमसमये च, शेषकालं त्वौदारिकमिश्रकाययोगः / “अपज्जसन्निसु ते सविउवमीस" ति 'अपर्याप्तसंज्ञिषु' संश्यपर्याप्तजीवेषु 'ती' पूर्वोक्तौ कार्मणौदारिकमिश्रकाययोगौ भवतः, किं केवलौ ! न इत्याह-सह वैक्रियमिश्रेण वर्तेते इति सवैक्रियमिश्रौ / तथा चापर्याप्तसंज्ञिनि त्रयो योगा भवन्ति कार्मणकाययोग औदारिकमिश्रकाययोगो वैक्रियमिश्रकाययोगश्च / तत्र कार्मणकाययोगोऽपान्तरालगतावुत्सविप्रथमसमये च, शेषकालं तु तिर्यड्मनुष्ययोरौदारिकमिश्रकाययोगः / संज्ञिनोऽपर्याप्तस्य देव. नारकेषु पुनरुत्पद्यमानस्य वैक्रियमिश्रकाययोगो द्रष्टव्यो न शेषस्य, असम्भवात्, मिश्रता चात्र कार्मणेन सह द्रष्टव्या / अत्रैव मतान्तरमुपदर्शयन्नाह-एषु' पूर्वनिर्दिष्टेषु शेषपर्यात्यपेक्षयाऽपर्याप्तेषु तनुपर्याप्या पर्याप्तेषु शरीरपर्याप्तेष्वित्यर्थः 'औदारिकम्' औदारिककाययोगम् 'अन्ये' केचिदाचार्याः शीलाकादयः प्रतिपादयन्तीति शेषः, शरीरपर्यास्या हि परिसमाप्तिवत्या किल तेषां शरीरं परिपूर्ण निष्पन्नमिति कृत्वा / तथा च तदन्थःऔदारिककाययोगस्तिर्यमनुष्ययोः शरीरपर्याप्रूवम् , तदारतस्तु मिश्रः। (आ. प्र. श्रु. द्वि० अ० पत्र 94) इति / नन्वनया युक्त्या संज्ञिनोऽपर्याप्तस्य देवनारकेषुत्पद्यमानस्य तनुपर्याप्त्या पर्याप्तस्य वैक्रियमपि शरीरमुपपद्यत एव किमिह तद् नोक्तम् ! इति, उच्यते-उपलक्षणत्वाद् एतदपि द्रष्टव्यमित्यदोषः; यद्वा इहापर्याप्ता लब्ध्यपर्याप्तका एवान्तर्मुहूर्तायुषो द्रष्टव्याः, ते च तिर्यमनुष्या एव घटन्ते, तेषामेवान्तर्मुहूर्तायुष्कत्वसम्भवात् , न देवनारकाः, तेषां जघन्यतोऽपि दशवर्षसहसायुष्कत्वात् / लब्ध्यपर्याप्तका अपि च जघन्यतोऽपि इन्द्रियपर्याप्तौ परिसमाप्तायामेव नियन्ते नार्वाग् इत्युक्तमागमाभिप्रायेण / ततस्तेषां लब्ध्यपर्याप्तकानां शरीरपर्याप्त्या पर्याप्तानामौदारिकमेव शरीरमुपपद्यते न वैक्रियमित्यदोषः। ____किश्चान्यमतकथनेनाऽयमभिप्रायः सूच्यते-यद्यपि तेषां शरीरपर्याप्तिः समजनिष्ट तथापि इन्द्रियोच्छासादीनामद्याप्यनिष्पन्नत्वेन शरीरस्यासम्पूर्णत्वाद् अत एव कार्मणस्याप्यद्यापि व्याप्रियमाणत्वाद् औदारिकमिश्रमेव तेषां युक्त्या घटमानकमिति // 4 // सव्वे सन्निपजत्ते, उरलं सुहमे सभासु(स) तं चउसु। - बायरि सविउव्विदुर्ग, पजसन्निसु बार उवओगा // 5 // _ 'सर्वे' पञ्चदशापि योगा भवन्ति / तथाहि-चतुर्धा मनोयोगः चतुर्धा वाग्योगः सप्तघा काययोगः / क ! इत्याह-'संज्ञिपर्याप्ते' संज्ञी चासौ पर्याप्तश्च संज्ञिपर्याप्तः तस्मिन् संज्ञिपर्याधे / / नन्वौदारिकमिश्रवैक्रियमिश्रकार्मणकाययोगाः कथं संक्षिपर्याप्तस्य घटन्ते तेषामपर्याधावस्थाभावित्वात् !, उच्यते-वैक्रियमित्रं संयतादेवैक्रियं प्रारभमाणस्य प्राप्यते, औदारिकमिअकार्मणकाययोगौ तु केवलिनः समुद्धातावस्थायाम् / यदाह भगवानुमाखातिवाचकवरः