________________ 120 देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा दृष्ट्यादीनि, तेषां पर्याप्तावस्थायामेव भावात् / “सन्निपजे सधगुण" ति संज्ञिनि पर्याप्ते सर्वाण्यपि मिथ्यादृश्यादीनि अयोगिपर्यन्तानि गुणस्थानकानि भवन्ति, संज्ञिनः सर्वपरिणामसम्भवात् / __ अथ कथं संज्ञिनः सयोग्ययोगिरूपगुणस्थानकद्वयसम्भवः तद्भावे तस्याऽमनस्कतया संज्ञिवायोगात् !, न, तदानीमपि हि तस्य द्रव्यमनःसम्बन्धोऽस्ति, समनस्काश्चाऽविशेषेण संज्ञिनो व्यवहियन्ते, ततो न तस्य भगवतः संज्ञिताव्याघातः। यदुक्तं सप्ततिकाचूर्णी मणकरणं केवलिणो वि अस्थि तेण सन्निणो भन्नंति, मनोविन्नाणं पडुच्च ते सन्निणो न भवंति ति / . "मिच्छ सेसेसु" ति मिथ्यात्वं शेषेषु' भणितावशिष्टेषु पर्याप्तापर्याप्तसूक्ष्मपर्याप्तबादरैकेन्द्रियदीन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियलक्षणेषु सप्तसु जीवस्थानकेषु मिथ्यादृष्टिगुणस्थानमेव भवति न सासादनमपि, यतः परभवादागच्छतामेव घण्टालालान्यायेन सम्यक्त्वलेशमाखादय. तामुत्पत्तिकाल एवापर्याप्तावस्थायां जन्तूनां लभ्यते न पर्याप्तावस्थायाम् / अतः पर्याप्तसूक्ष्म१वादर२ द्वित्रिचतुपरसंज्ञिपञ्चेन्द्रियाणां६ तदभावः, अपर्याप्तसूक्ष्मैकेन्द्रियेऽपि न सासादनसम्भवः, सासादनस्य मनाक् शुभपरिणामरूपत्वात् , महासंक्लिष्टपरिणामस्य च सूक्ष्मैकेन्द्रियमध्ये उत्पादाभिधानादिति // 3 // तदेवं निरूपितानि जीवस्थानकेषु गुणस्थानकानि / साम्प्रतं योगा वक्तुमवसरमाप्तास्ते च पञ्चदश, तद्यथा-सत्यवाग्योगः 1 असत्यवाग्योगः 2 सत्यमृषावाग्योगः 3 असत्यामृषावाम्योगः 1 / तत्खरूपं चेदम् सच्चा हिया सतामिह, संतो मुणयो गुणा पयत्था वा। तबिवरीया मोसा, मीसा जा तदुभयसहावा // ___ अणहिगया जा तीसु वि, सहु च्चिय केवलो असञ्चमुसा / / एवं मनोयोगोऽपि चतुर्धा द्रष्टव्यः 1 / काययोगः सप्तधा-औदारिकम् 1 औदारिक. मिश्रं 2 वैक्रियं 3 वैक्रियमिश्रम् 4 आहारकम् 5 आहारकमिश्रं 6 कार्मणं च 7 / तत्रौदारिककाययोगस्तियङ्मनुष्ययोः / तयोरेवापर्याप्तयोरौदारिकमिश्रकाययोगः / वैक्रियकाय. योगो देवनारकयोस्तिर्यामनुष्ययोर्वा वैक्रियलब्धिमतोः / वैक्रियमिश्रकाययोगोऽपर्याप्तयोर्देवनारकयोस्तिर्यव्यनुष्ययोर्वा वैक्रियस्यारम्भकाले परित्यागकाले च / आहारक चतुर्दशपूर्वविदः / आहारकमिश्रकाययोग आहारकस्य प्रारम्भसमये परित्यागकाले च / कार्मणकाययोगोऽष्टप्रकारकर्मविकाररूपशरीरचेष्टाखरूपोऽन्तरालगतावुत्पत्तिप्रथमसमये केवलिसमुद्धातावस्थायां च / तानेतान् योगान् जीवस्थानकेषु व्याचिख्यासुराह अपजत्तछकि कम्मुरलमीस जोगा अपजसन्निसु ते। सविउव्वमीस एसुं, तणुपज्जेसुं उरलमन्ने // 4 // मनःकरणं केवलिनोऽप्यस्ति वेन संझिनो भण्यन्ते / मनोविज्ञानं प्रतीत्य ते न संझिनः स्युः // 2 सख्या हिता सतामिह सन्तो मुनयो गुणाः पदार्था वा / तद्विपरीता मृषा मिश्रा या तदुभयखभावा॥ अनधिकता या तिसम्बपि शन्द एव केवलः असत्यमृषा // - संचा।