________________ षडशीतिनामा चतुर्थः कर्मग्रन्थः / .. खीणम्मि मोहणिजे, खीणकसाओ सजोग जीगि ति (गति)। होइ पउत्ता य तओ, अपउत्ता होइ हु अजोगी / भविरयसासणमिच्छा, परभविया न उण सेसगुणठाणा / मिच्छसि तिन्नि भंगा, छावलियं होइ सासाणं // तिचीसयर चउत्वं, पुराणं कोडि ऊण तेरसमं / बहुपंचक्खर चरिमं, अंतमुह सेसगुणठाणा // ततो बादराश्च-बादरैकेन्द्रियाः पृथिव्यम्बुवनस्पतिलक्षणाः असंज्ञी च-विशिष्टमरणादि. रूपमनोविज्ञान विकलः विकलाश्च-विकलेन्द्रिया द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः बादरासंजिविकलं तमिन् बादरासंज्ञिविकले / किंविशिष्टे! "अपजि" ति अपर्यासे, कोऽर्थः / अपर्याप्तबादरैकेन्द्रियेषु पृथिव्यम्बुवनस्पतिषु, तथा अपर्याप्तेऽसज्ञिनि, तथा विकलेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेष्वपर्याप्तेषु / किम् ! इत्याह-"पढमविय" ति इह "सबगुणा" इति पदाद् गुणशब्दस्याकर्षणम्, ततः प्रथम-मिथ्यादृष्टिगुणस्थानं द्वितीयं-सासादनगुणसानं भवति / अथ तेजोवायुवर्जनं किमर्थम् ! इति चेद्, उच्यते-तेजोवायूनां मध्ये सम्यक्त्वलेशवतामपि उत्पादाभावात् सम्यक्त्वं चासादयतां सासादनभावाभ्युपगमात् / मन्वेकेन्द्रियाणामागमे सासादनभावो नेष्यते, "उमयाभावो पुढवाइरस सम्मतबद्धीए" इति परममुनिप्रणीतवचनप्रामाण्यात् , अत एवागमे एकेन्द्रिया अज्ञानिन एवोकाः, द्वीन्द्रियादयश्च केचिदपर्याप्तावस्थायां सासादनभावाभ्युपगमाद् ज्ञानिन उक्ताः केचिच तदभावाद् मज्ञानिनः, यदि पुनरेकेन्द्रियाणामपि सासादनभावः स्यात् तर्हि तेऽपि द्वीन्द्रियादिव उम. यथाऽप्युच्येरन् , न चोच्यन्ते, यदुक्तम् ऐंगेंदिया णं भंते / किं नाणी अन्नाणी ! गोयमा ! नो नाणी नियमा अन्नाणी / तथाबेइंदिया णं भंते ! किं नाणी अन्नाणी ! गोयमा ! नाणी वि अन्नाणी वि / इत्यादि। . तत् कथमिहापर्याप्तबादरैकेन्द्रियेषु पृथिव्यम्बुवनस्पतिलक्षणेषु सासादनगुणस्थानकभाव उक्तः !, सत्यमेतत्, किन्तु मा त्वरिष्ठाः, सर्वमेतदने प्रतिविधास्याम इति / "सन्निअपजते अजयजय" ति / संज्ञिन्यपर्याप्ते तदेव पूर्वोक्तं मिथ्याडष्टिसासादनक्षणं गुणस्थानकद्वयमयतयुतं भवति / यमनं यतं-विरतिरित्यर्थः, न विद्यते यतं यस्य सोऽयतोऽविरतसम्यग्दृष्टिरित्यर्थः, तेन युतं-संयुक्तमयतयुतम् / इदमुक्तं भवति-संज्ञिन्यपर्यावे त्रीणि मिथ्यादृष्टिसासादनाऽविरतसम्यग्दृष्टिलक्षणानि गुणस्थानानि भवन्ति, न शेषाणि सम्यग्मिथ्या. १क्षीणे मोहनीये क्षीणकषायः सयोगः योगीति / भवति प्रयोका व सकःभप्रयोका भवस्येवाबोगी। अविरतसाखादनमिध्यावानि परभविकानि न पुनः शेषगुणस्थानानि / मिथ्याबस्स प्रयो भनाः पडाबालिक भवति साखादनम् // त्रयस्त्रिंशदतराणि चतुर्थ पूर्वाणां कोटिम्ना प्रयोदशम् / लघुपञ्चाक्षरं परममन्त्रमुहतं शेषगुणस्थानानि // 1 उभयाभावः पृथिव्यादिकेषु सम्यक्सलन्धेः॥ 3 एकेन्द्रियाः भदन्त मानिनोमानिनः गौतमान शानिनो नियमादज्ञानिनः ॥द्वीन्द्रियाः भदन्त। किशानिनोमानिनः मोठम। शानिनोप्यज्ञानिनोऽपि //