________________ 116 देवेन्द्रसूरिविरचितखोपज्ञटीकॊपेतः [गाया न कृष्णाघन्यतमलेश्यापरिणामो जायते तावद् न तस्य स्थितिपाकविशेषो भवति, "स्थितिपाकविशेषतस्य भवति लेश्याविशेषेण" इति वचनप्रामाण्यात् , ततो योगवशादुपात्तस्य कर्मणो लेश्याविशेषतः स्थितिपाकविशेषो भवतीति प्रतिपत्तये योगानन्तरं लेश्याग्रहणम् 6 / लेश्याबन्तश्च यथायोग्यैर्वन्धहेतुभिः कर्मबन्धोदयोदीरणासत्ताः प्रकुर्वन्तीति ज्ञापनाय लेश्यानन्तरं बन्धग्रहणम् 7 / बन्योदयादियुक्ताब जीवा मार्गणासानाद्याश्रित्य नियमतः परस्परमरुपे वा भवेयुर्वहवो वेति निवेदनार्य बन्धानन्तरमल्पबहुत्वग्रहणम् 8 ते च जीवा मार्गणास्थानादिब्वल्पे वा बहवो वा भवन्तोऽवश्यं षण्णामौपशमिकादिभावानां केषुचिद् भावेषु वर्तन्त इति प्रकटनार्थमल्पबहुत्वानन्तरं भावग्रहणम् 9 / औपशमिकादिभाववतां च जीवानामल्पबहुत्वं नियमतः सङ्ग्येयकेन असङ्ख्येयकेन अनन्तकेन वा निरूपणीयमिति भावग्रहणानन्तरं सङ्ख्येयकादिग्रहणम् 10 इति / __ यद्यपि चेह सामान्येनोक्तं "जीवस्थानादि वक्ष्ये" तथाप्येवं विशेषतो द्रष्टव्यम्-जीवस्थानकेषु गुणस्थानकयोगोपयोगलेश्याकर्मबन्धोदयोदीरणासत्ता वक्ष्ये, मार्गणास्थानकेषु पुनर्जीवसानकगुणस्थानकयोगोपयोगलेश्याऽल्पबहुत्वानि, गुणस्थानकेषु च जीवस्थानकयोगोपयोगलेश्यावन्धहेतुबन्धोदयोदीरणासत्ताऽल्पबहुत्वानि / तत्र गाथाः चउदसजियठाणेसुं, चउदस गुणठाणगाणि 1 जोगा य 2 / / उवयोग 3 लेस ? बंधु 5 दउ 6 दीरणा 7 संत 8 अट्ठ पए / चउदसमग्गणठाणेसु, मूलपएसुं बिसहि इयरेसु / / जिय 1 गुण 2 जोगु 3 वओगा 4, लेस 5 ऽप्पबहुं 6 च छट्ठाणा // चउदसगुणठाणेसुं, जिय 1 जोगु 2 वओग 3 लेस 1 बंधा 5 य / बंधु 6 दयु 7 दीरणाओ 8, संत 9 ऽप्पबहुं 10 च दस ठाणा // इति // 1 // तत्र यथोद्देशं निर्देश इति न्यायात् प्रथमं तावद् जीवस्थानानि निरूपयन्नाह इह सुहुमवायरेगिदिबितिचउअसन्निसन्निपंचिंदी। अपजत्ता पज्जत्ता, कमेण चउदस जियहाणा // 2 // . 'दह' अस्मिन् जगति अनेन क्रमेण चतुर्दश जीवस्थानानि प्रामिरूपितशब्दार्थानि भवन्ति / केन क्रमेण ! इति चेद् , इत्याह-सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रियाः, एते च सर्वेऽपि प्रत्येकं पर्याप्तका अपर्याप्तकाश्चेति / तत्र एकं स्पर्शनलक्षणमिन्द्रियं येषां त एकेन्द्रियाः पृथिव्यवेजोवायुवनस्पतयः, ते च प्रत्येकं द्वेषा-सूक्ष्मा बादराश्च / सूक्ष्मनामकोंदयात् सूक्ष्माः सकललोकव्यापिनः, बादरनामकर्मोदयाद् बादराः ते च लोकप्रतिनियतदेशवर्तिनः / द्वित्रिचतुरसंज्ञिसंज्ञिपञ्चेन्द्रिया इति, इन्द्रियशब्दस्य प्रत्येकं योगाद् द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रिया असंज्ञिसंज्ञिभेदभिन्नाश्च पञ्चेन्द्रियाः / तत्र द्वे स्पर्शनरसनलक्षणे चतुर्दशजीवस्थानेषु चतुर्दश गुणस्थानकानि योगाश्च / उपयोगळेश्यावन्धोदयोधरणासत्ता अष्ट पदानि / चतुर्दशमार्गणास्थानेषु मूलपदेषु द्विषष्टिरितरेषु / जीवगुणयोगोपयोगा लेश्याऽल्पबहुत्वं च षट् स्थानानि / चतुर्दशगुणस्थानेषु जीवयोगोपयोगळेश्यावन्धाय / बन्धोदयोदीरणाः सत्ताऽल्पबहुलं च दश स्थानानि /