________________ षडशीतिनामा चतुर्थः कर्मग्रन्थः / इन्द्रिये येषां ते द्वन्द्रियाः कृमिपूतरकचन्दनकशङ्खकपर्दजलौकाप्रमृतयः / श्रीणि स्पर्शनरसनघ्राणरूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः कुन्थुमत्कुणयूकागर्दभेन्द्रगोपकमत्कोटकादयः / चत्वारि स्पर्शनरसनशाणचक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः अमरमक्षिकामशकश्चिकादयः / पञ्च स्पर्शनरसनधाणचक्षुःश्रोत्रलक्षणानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः मत्स्यमकरेभकलभसारसहंसनरसुरनारकादयः, ते च द्विविधाः- संज्ञिनोऽसंज्ञिनश्च / तत्र संज्ञान संज्ञा-भूतभवद्भाविभावखभावपर्यालोचनम्, "उपसर्गादातः" (सि०५-३-११०) इत्यप्रत्ययः, सा विद्यते येषां ते संज्ञिनः-विशिष्टमरणादिरूपमनोविज्ञानमाज इति यावत्, तद्विपरीता असंज्ञिनः-विशिष्टस्मरणादिरूपमनोविज्ञानविकला इत्यर्थः / एते च सूक्ष्मैकेन्द्रियादयः प्रत्येक द्विधा-पर्याप्तका अपर्याप्तकाश्च / पर्याप्तिर्नाम-पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः, सा च विषयभेदात् षोढा-आहारपर्याप्तिः 1 शरीरपर्याप्तिः 2 इन्द्रियपर्याप्तिः 3 उच्छासपर्याप्तिः 4 भाषापर्याप्तिः 5 मनःपर्याप्तिः 6 चेति / तत्र यया बाबमाहारमादाय खलरसरूपतया परिणमयति सा आहारपर्याप्तिः 1 / यया रसीमूतमाहारं रसासग्मासमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याधिः 2 / यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः 3 / यया पुनरुच्छासमायोग्यवर्गणादलिकमादाय उच्छासरूपतया परिणमय्याऽऽलम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः / यया तु भाषाप्रायोग्यवर्गणाद्रव्यं गृहीत्वा भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा भाषापर्याप्तिः 5 / यया पुनर्मनोयोग्यवर्गणादलिकं गृहीत्वा मनस्त्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा मनःपर्याप्तिः 6 / एताश्च यथाक्रममेकेन्द्रियाणां द्वीन्द्रियादीनां संज्ञिनां च चतुःपश्वषट्सच्या भवन्ति / यदभाणि आहारसरीरिंदिय, पज्जती आणपाणुभासमणे / चचारि पंच छ प्पि य, एगिदियविगलसनीणं / / पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः, "अनादिभ्यः" (सि०७-२-१६) इति मत्वर्थीयः अप्रत्ययः, खार्थिककप्रत्ययोपादानात् पर्याप्तकाः / ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्तकाः, ते च द्विधा लब्ध्या करणैश्च / तत्र येऽपर्याप्तका एव सन्तो नियन्ते न पुनः खयोग्यपर्याप्तीः सर्वा अपि समर्थयन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावद् निर्वर्तयन्ति अथ चावश्यं पुरस्ताद् निर्वर्तयिष्यन्ति ते करणापर्याप्तकाः / इह चैवमागमः लब्ध्यपर्याप्तका अपि नियमादाहारशरीरेन्द्रियपर्याप्तिपरिसमाप्तावेव प्रियन्ते नाग, यस्मादागामिभवायुर्बद्धा नियन्ते सर्व एव देहिनः, तच्चाऽऽहारशरीरेन्द्रियपर्याप्तिपर्याप्तानामेव बध्यते / इति // 2 // तदेवं निरूपितानि जीवस्थानानि / अथैतेष्वेव जीवस्थानेषु गुणस्थानानि प्रचिकटयिषुराह माहारशरीरेंद्रियाणि पर्याप्तय मानप्राणभाषामनांसि / चततः पञ्च षडपि च एकेन्द्रियविकलसंशिमाम् //