________________ // अहम् // पूज्यश्रीदेवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः षडशीतिनामा चतुर्थः कर्मग्रन्थः / ॥ॐ नमःप्रवचनाय // यद्भाषितार्थलवमाप्य दुरापमाशु, श्रीगौतमप्रभृतयः शमिनामधीशाः / सूक्ष्मार्थसार्थपरमार्थविदो बभूवुः, श्रीवर्धमानविभुरस्तु स वः शिवाय // 1 // निजधर्माचार्येभ्यो, नत्वा निष्कारणैकबन्धुभ्यः / भीषडशीतिकशास्त्रं, विवृणोमि यथागमं किञ्चित् // 2 // तत्राऽऽदावेवाऽभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाह नमिय जिणं जियमग्गणगुणठाणुवओगजोगलेसाओ। पंधऽप्पबहूभावे, संखिज्जाई किमवि वुच्छं // 1 // जिनं नत्वा जीवस्थानादि वक्ष्य इति सम्बन्धः / तत्र 'नत्वा' नमस्कृत्य, नमस्कारो हि चतुर्धा-द्रव्यतो नामैको न भावतो यथा पालकादीनाम् 1, भावतो नामैको न द्रव्यतो यथाऽनुत्तरोपपातिसुरादीनाम् 2, एको द्रव्यतोऽपि भावतोऽपि यथा शम्बकुमारप्रभृतीनाम् 3, एको न द्रव्यतो नापि भावतो यथा कपिलादीनाम् / ततो द्रव्यभावरूपेण भावनमस्कारेण नमस्कृत्य / कम् ! इत्याह-'जिन' रागद्वेषमोहादिदुरवैरिवारजेतारं वीतरागम् , परमाईन्त्यमहिमालकृतं तीर्थकरमित्यर्थः / अनेन परमाभीष्टदेवतानमस्कारेण ऐकान्तिकमात्यन्तिकभावमङ्गलमाह, तेन च शास्त्रस्याऽऽपरिसमावेनिष्पत्यूहता भवतीति / क्त्वाप्रत्ययस्य चोचरक्रियासापेक्षत्वाद् उत्तरक्रियामाह-जीवमार्गणागुणस्थानादि वक्ष्ये / इह खानशब्दस्य प्रत्येक योगाद् जीवस्थानानि, मार्गणास्थानानि, गुणस्थानानि / तत्र जीवन्ति-यथायोग्यं प्राणान् धारमन्तीति जीवाः प्राणिनः शरीरमृत इति पर्यायाः, तेषां जीवानां स्थानानि-सूक्ष्मापर्याप्पैकेन्द्रियत्वादयोऽवान्तरविशेषाः, तिष्ठन्ति जीवा एषु इति कृत्वा जीवस्थानानि 1 / मार्गणंजीवादीनां पदार्थानामन्वेषणं मार्गणा, तस्याः स्थानानि-आश्रया मार्गणास्थानानि वक्ष्यमाणानि गत्यादीनि 2 / गुणाः-ज्ञानदर्शनचारित्ररूपा जीवखभावविशेषाः, स्वानं-पुनरेतेषां शुद्ध्यशुद्धिप्रकर्षापकर्षकृतः खरूपभेदः, तिष्ठन्ति गुणा असिन्निति कृत्वा, गुणानां स्थानानि गुणस्थानानि-परमपदप्रासादशिखरारोहणसोपानकल्पानि खोपज्ञकर्मस्तवटीकायां सविस्तरममिहितानि इहैव वा किश्चिद्वक्ष्यमाणानि मिथ्यादृष्टिप्रभृतीनि चतुर्दश 3 / "उवओग" ति उपयोजनमुपयोगः-बोधरूपो जीवव्यापारः, भावे घञ्, यद्वा उपयुज्यते-वस्तुपरिच्छेदं प्रति