________________ 22-24) बन्धखामित्वाख्यस्तृतीयः कर्मग्रन्यः / टकं मुक्त्वा शेषस्य द्वादशोत्तरशतस्याऽनाहारके सामान्येन बन्धः / तथा जिननाम सुरद्विकं वैक्रियद्विकं च द्वादशोत्तरशतमध्याद् मुक्त्वा शेषस्य सप्तोत्तरशतस्यानाहारके मिथ्यादृष्टौ बन्धः। तथा सूक्ष्मादित्रयोदश प्रकृतीर्मुक्त्वा शेषायाश्चतुर्नवतेः सासादनस्थेऽनाहारके बन्धः / तथाsनन्तानुबन्ध्यादिचतुर्विंशतिपकृतीश्चतुर्नवतेमध्याद् मुक्त्वा शेषायाः सप्ततेर्जिननामसुरद्विकवैक्रियद्विकयुक्तायाः पञ्चसप्ततेरविरतेऽनाहारके बन्धः / तथा सयोंगिनि केवलिसमुद्धाते तृतीयचतुर्थपञ्चमसमयेष्वनाहारक एकस्याः सातप्रकृतेर्बन्धः // 23 // __ अथ प्राग् यदुक्तं लेश्याद्वारे-"साणाइसु सबहिं ओहो" ति (गा० 21) “सासादनादिषु गुणस्थानेषु सर्वत्र लेश्याषट्के ओघो द्रष्टव्यः" इति, वत्र न ज्ञायत आदिशब्दात् कस्यां लेश्यायां कियन्ति गुणस्थानानि गृह्यन्ते : इत्यतो लेश्यासु गुणस्थानकान्युपदर्शयन् प्रकरणसमर्थनां प्रकरणज्ञानोपायं चाह तिसु दुसु सुक्काइ गुणा, चउ सग तेर त्ति बंधसामित्तं / , देविंदसूरिलिहियं, नेयं कम्मत्थयं सोउं // 24 // व्याख्या-'तिस्षु' आद्यासु कृष्णनीलकापोतलेश्यासु"चउ" इत्यादिना यथाक्रम सम्बन्धात् 'चत्वारि' मिथ्यात्वसासादन मिश्राविरतरूपाण्याद्यानि गुणस्थानानि प्राप्यन्ते, एतद्गुणस्थानचतुष्के परिणामविशेषतः षण्णामपि लेश्यानां भावात् / 'द्वयोः' तेजःपद्मलेश्ययोमिथ्यात्वादीनि सप्त गुणस्थानानि, तयोरप्रमत्तगुणस्थानकान्तमपि यावद्भावात् / शुक्कलेश्यायां त्रयोदश मिथ्यात्वादीनि गुणस्थानानि, तस्या मिथ्यादृष्टिगुणस्थानात् प्रभृति यावत् सयोगिकेवलिगुणस्थानकं वावदपि भावात् / अयोगी त्वलेश्यः / इह च लेश्यानां प्रत्येकमसइयेयानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यावादी सम्भवो न विरुध्यते / तथा कृष्णादिलेश्यात्रयं यदिहाविरतगुणस्थानकान्तमुकं तद् बहदन्धस्वामित्वानुसारेम, षडशीतिके तु तस्य प्रमचगुणस्थानकान्तं यावदभिहितत्वात् / तथाहि लेसा तिन्नि पमवं, तेऊपम्हा उ अप्पमता। मुक्का जाव सजोगी, निरुद्धलेसो अजोगि चि // (जिनवल्लमीयषडशीति गा० 73) तत्त्वं तु श्रुतपरा विदन्ति इति / प्रतिपादितं गत्यादिषु बन्धखामित्वम् , तत्प्रतिपादनाच समर्थितं बन्धस्वामित्वप्रकरणम् / इतिशब्दः परिसमाप्तौ / पन्धखामित्वमेवत् 'ज्ञेयं' बोद्धव्यं, कर्मस्खवं श्रुत्वा, अत्र बहुषु स्थानेषु तदुक्तबन्धातिदेशद्वारेण मणनात् // 29 // एतद्वन्धस्य टीकाभूत्, परं कापि न साऽऽप्यते / स्थानस्याशून्यताहेतोरतोऽलेख्यवचूर्णिका // // इति बन्धखामित्वावरिः समाप्ता॥ ग्रन्थानम् 126 अक्षराणि 28 श्याखिनः प्रमत्तं [यावत् ] तेजःपनेतु अप्रमत्तान्तम् / शुक्ला यावत् सयोगिनं निरुदळेश्योऽयोगीति॥