________________ 11. देवेन्द्रसूरिविरचितः सावरिकः [गाथा व्याख्या-'आद्यलेश्यात्रिके' कृष्णनीलकापोतलेश्यात्रये वर्तमाना जीवाः 'ओपे' सामान्येन विंशत्युत्तरशतमाहारकद्विकोनं जातमष्टादशाधिकशतं तद् बध्नन्ति, आहारकद्विकस्स शुमलेश्यामिर्वध्यमानत्वात् / 'तद्' अष्टादशाधिकशतं तीर्थकरनामोनं सप्तदशोत्तरशतं मिथ्यात्वगुणस्थानके बध्नन्ति / सासादनादिषु गुणस्थानकेषु पुनः सर्वत्र' लेश्याषट्केऽपि ओषः' सामान्यबन्धो द्रष्टव्यः / ततोऽत्र सासादनमिश्राऽविरतेष्वोघः कर्मस्ववोकः // 21 // .. तेऊ नरयनवूणा, उजोयचउ नरयवार विणु सुका। .. विणु नरयषार पम्हा, अजिणाहारा इमा मिच्छे // 22 // - न्याख्या-विंशत्युत्तरशतं नरकत्रिकादिप्रकृतिनवकोनं तेजोलेश्यायामोघत एकादशोर शतं वध्यते, कृष्णाघशुभलेश्याप्रत्ययत्वाद् नरकत्रिकादिप्रकृतिनवकबन्धस्य / इदमेवैकादशोतरशतं जिननामाहारकद्विकरहितं शेषमष्टोत्तरशतं मिथ्यात्वे बध्यते / सासादनादिषु षट्सु गुणस्थानकेषु ओघः विंशत्युत्तरशतमध्याद् उद्योतादिचतुष्कं नरकत्रिकादिद्वादशकं च मुक्खा शेषं चतुरुत्तरशतमोघतः शुक्ललेश्यायां बध्यते, उद्योतादिप्रकृतीनां तिर्यमरकमायोग्यत्वेन देव. नरपायोग्यबन्धकैः शुक्ललेश्यावद्भिरबध्यमानत्वात् / एतदेव चतुरुत्तरं शतं जिननामाहारकद्विकरहितं शेषमेकोत्तरशतं मिथ्यात्वे बध्यते / सासादने तदीयैकोचरशतरूपौघबन्धाद् उद्योतादिप्रकृतिचतुष्टयापसारेण शेषाः सप्तनवतिर्बध्यते / मिश्रादिषु एकादशगुणस्थानकेषु तदवस्थः खखगुणस्थानीयो बन्धो द्रष्टव्यः / विंशत्युत्तरशतमध्याद् नरकत्रिकादिप्रकृतिद्वादशकं विना शेषमष्टोत्तरशतं पद्मलेश्यायामोघतो बध्यते, तल्लेश्यावतां सनत्कुमारादिदेवानां तिर्यक्पायोग्यं बनतामुद्योतादिप्रकृतिचतुष्कस्य बन्धसम्भवाद् नात्र तहन्धाभावः / एतदेवाष्टोचरशतं जिननामाहारकद्विकरहितं शेषं पञ्चोतरशतं मिथ्यात्वे बध्यते / सासादनादिषु षट्सु गुणस्थानकेषु यथास्थित एकोपरशतादिरूपः खखौघबन्धो द्रष्टव्यः / “आजेणाहारा इमा मिच्छे" ति प्रथमलेश्यात्रिकस्य “ओहे अट्ठारसयं" (गा० 21) इत्यादिना निर्धारितत्वेनेमातेजःपद्मशुक्कलेश्या मिथ्यात्वगुणस्थानके जिननामाहारकद्विकरहिता विज्ञेयाः, तेजोलेश्यादिषु नरकनवकाघूनो यः सामान्यबन्धः प्रतिपादितः स मिथ्यात्वगुणस्थानके जिनादिप्रकृतित्रयरहितो विधेय इत्यर्थः / तथा च दर्शितमेव // 22 // सम्प्रति भव्यादिद्वाराण्यभिधीयन्ते- .. सव्वगुणभव्वसन्निसु, ओहु अभव्वा असन्नि मिच्छसमा। सासणि असन्नि सन्नि व्व कम्मभंगो अणाहारे // 23 // व्याख्या सर्वगुणस्थानकोपेते भव्ये संज्ञिनि च मार्गणास्थाने सर्वगुणस्थानकोषः कर्मस्तवोक्तः / अभव्या असंज्ञिनश्च चिन्त्यमाना मिथ्यादृष्टिगुणस्थानकसमाः / अयमर्थः-यथा मिथ्यात्वे सप्तदशोचरशतबन्धः कर्मस्तव उक्तस्तथाऽभव्योऽसंज्ञी च सामान्यतो मिथ्यात्वे च सप्तदशोत्तरशतं बध्नाति / सासादने पुनरसंज्ञी संज्ञिवद , एकोत्तरशतबन्धक इत्यर्थः / अनाहारके तु मार्गणास्थाने कार्मणकाययोगमाः “विणु तिरिनराउ कम्मे वि" (गा० 15) इत्यादिना योगमार्गणास्थाने प्रतिपादितोऽवगन्तव्यः, कार्मणकाययोगस्थस्यैव संसारिणोऽनाहारकत्वात् / कार्मणभङ्गश्चायं विंशत्युत्तरशतमध्यादाहारकद्विकदेवायुर्नरकत्रिकतिर्यमरायुःप्रकृत्य